मुद्गरैर् लोहदण्डैश् च शक्तितोमरपट्टिशैः परिघैर् भिन्दिपालैश् च गदापरशुभिः शरैः
पृष्ठतो हन्यमान्याश् च यमदूतैः सुनिर्दयैः अग्रतः सिंहव्याघ्राद्यैर् भक्ष्यन्ते पापकारिणः
न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः
तत्र संपीड्य सुभृशं प्रवेशं यमकिंकरैः नीयन्ते पापिनस् तत्र यत्र तिष्ठेत् स्वयं यमः
धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः
प्रज्ञापितास् तदा दूतैर् निवेश्यन्ते यमाग्रतः ततस् ते पापकर्माणस् तं पश्यन्ति भयानकम्
पापापविद्धनयना विपरीतात्मबुद्धयः दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम्
ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम्
सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् महामहिषम् आरूढं दीप्ताग्निसमलोचनम्
रक्तमाल्याम्बरधरं महामेघम् इवोच्छ्रितम् प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम्
ग्रसन्तम् इव त्रैलोक्यम् उद्गिरन्तम् इवानलम् मृत्युं च तत्समीपस्थं कालानलसमप्रभम्
प्रलयानलसंकाशं कृतान्तं च भयानकम् मारीचोग्रा महामारी कालरात्री च दारुणा
विविधा व्याधयः कष्टा नानारूपा भयावहाः शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः
वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः असंख्याता महावीर्याः क्रूराश् चाञ्जनसप्रभाः
सर्वायुधोद्यतकरा यमदूता भयानकाः अनेन परिवारेण महाघोरेण संवृतम्
यमं पश्यन्ति पापिष्ठाश् चित्रगुप्तं विभीषणम् निर्भर्त्सयति चात्यर्थं यमस् तान् पापकारिणः
चित्रगुप्तस् तु भगवान् धर्मवाक्यैः प्रबोधयन्
भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः गर्विता रूपवीर्येण परदारविमर्दकाः
यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः तत् किम् आत्मोपघातार्थं भवद्भिर् दुष्कृतं कृतम्
इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः भुञ्जध्वं स्वानि दुःखानि नहि दोषो ऽस्ति कस्यचित्
य एते पृथिवीपालाः संप्राप्ता मत्समीपतः स्वकीयैः कर्मभिर् घोरैर् दुष्प्रज्ञा बलगर्विताः
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम्
राज्यलोभेन मोहेन बलाद् अन्यायतः प्रजाः यद् दण्डिताः फलं तस्य भुञ्जध्वम् अधुना नृपाः
कुतो राज्यं कलत्रं च यदर्थम् अशुभं कृतम् तत् सर्वं संपरित्यज्य यूयम् एकाकिनः स्थिताः
पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः यमदूतैः पाट्यमाना अधुना कीदृशं फलम्
एवं बहुविधैर् वाक्यैर् उपालब्धा यमेन ते शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः
इति कर्म समादिश्य नृपाणां धर्मराट् स्वयम् तत्पातकविशुद्ध्यर्थम् इदं वचनम् अब्रवीत्
भो भोश् चण्ड महाचण्ड गृहीत्वा नृपतीन् इमान् विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु
ततः शीघ्रं समुत्थाय नृपान् संगृह्य पादयोः भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च
तत्तत्पापप्रमाणेन यमदूताः शिलातले आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम्