कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश् च पुष्कलान्
सुगन्धद्रव्यसंयुक्तान् याचमानाः पुनः पुनः दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा
पानानि च सुगन्धीनि शीतलान्य् उदकानि च तान् याचमानांस् ते याम्या भर्त्सयन्तस् तदाब्रुवन् वचोभिः परुषैर् भीमाः क्रोधरक्तान्तलोचनाः
न भवद्भिर् हुतं काले न दत्तं ब्राह्मणेषु च प्रसभं दीयमानं च वारितं च द्विजातिषु
तस्य पापस्य च फलं भवतां समुपागतम् नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः
कुतो वा सांप्रतं विप्रे यन् न दत्तं पुराधमाः यैर् दत्तानि तु दानानि साधुभिः सात्त्विकानि तु
तेषाम् एते प्रदृश्यन्ते कल्पिता ह्य् अन्नपर्वताः भक्ष्यभोज्याश् च पेयाश् च लेह्याश् चोष्याश् च संवृताः
न यूयम् अभिलप्स्यध्वे न दत्तं च कथंचन यैस् तु दत्तं हुतं चेष्टं ब्राह्मणाश् चैव पूजिताः
तेषाम् अन्नं समानीय इह निक्षिप्यते सदा परस्वं कथम् अस्माभिर् दातुं शक्येत नारकाः
किंकराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः ततस् ते दारुणैश् चास्त्रैः पीड्यन्ते यमकिंकरैः
मुद्गरैर् लोहदण्डैश् च शक्तितोमरपट्टिशैः परिघैर् भिन्दिपालैश् च गदापरशुभिः शरैः
पृष्ठतो हन्यमान्याश् च यमदूतैः सुनिर्दयैः अग्रतः सिंहव्याघ्राद्यैर् भक्ष्यन्ते पापकारिणः
न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः
तत्र संपीड्य सुभृशं प्रवेशं यमकिंकरैः नीयन्ते पापिनस् तत्र यत्र तिष्ठेत् स्वयं यमः
धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः
प्रज्ञापितास् तदा दूतैर् निवेश्यन्ते यमाग्रतः ततस् ते पापकर्माणस् तं पश्यन्ति भयानकम्
पापापविद्धनयना विपरीतात्मबुद्धयः दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम्
ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम्
सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् महामहिषम् आरूढं दीप्ताग्निसमलोचनम्
रक्तमाल्याम्बरधरं महामेघम् इवोच्छ्रितम् प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम्
ग्रसन्तम् इव त्रैलोक्यम् उद्गिरन्तम् इवानलम् मृत्युं च तत्समीपस्थं कालानलसमप्रभम्
प्रलयानलसंकाशं कृतान्तं च भयानकम् मारीचोग्रा महामारी कालरात्री च दारुणा
विविधा व्याधयः कष्टा नानारूपा भयावहाः शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः
वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः असंख्याता महावीर्याः क्रूराश् चाञ्जनसप्रभाः
सर्वायुधोद्यतकरा यमदूता भयानकाः अनेन परिवारेण महाघोरेण संवृतम्
यमं पश्यन्ति पापिष्ठाश् चित्रगुप्तं विभीषणम् निर्भर्त्सयति चात्यर्थं यमस् तान् पापकारिणः
चित्रगुप्तस् तु भगवान् धर्मवाक्यैः प्रबोधयन्
भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः गर्विता रूपवीर्येण परदारविमर्दकाः
यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः तत् किम् आत्मोपघातार्थं भवद्भिर् दुष्कृतं कृतम्
इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः भुञ्जध्वं स्वानि दुःखानि नहि दोषो ऽस्ति कस्यचित्