अन्ये ये चैव निर्दिष्टा महापातककारिणः दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् श्रोतुम् इच्छाम तद् ब्रूहि विस्तरेण तपोधन
सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् नानाश्वापदसंकीर्णं शिवाशतनिनादितम्
फेत्काररवसंयुक्तम् अगम्यं लोमहर्षणम् भूतप्रेतपिशाचैश् च वृतं चान्यैश् च राक्षसैः
एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च
ततस् ताञ् शृङ्खलैः पाशैर् बद्ध्वा कर्षन्ति निर्भयाः ताडयन्ति च दण्डैश् च भर्त्सयन्ति पुनः पुनः
लब्धसंज्ञास् ततस् ते वै रुधिरेण परिप्लुताः व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे
तीव्रकण्टकयुक्तेन शर्करानिचितेन च क्षुरधारानिभैस् तीक्ष्णैः पाषाणैर् निचितेन च
क्वचित् पङ्केन निचिता निरुत्तारैश् च खातकैः लोहसूचीनिभैर् दन्तैः संछन्नेन क्वचित् क्वचित्
तटप्रपातविषमैः पर्वतैर् वृक्षसंकुलैः प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः
क्वचिद् विषमगर्ताभिः क्वचिल् लोष्टैः सुपिच्छलैः सुतप्तवालुकाभिश् च तथा तीक्ष्णैश् च शङ्कुभिः
अयःशृङ्गाटकैस् तप्तैः क्वचिद् दावाग्निना युतम् क्वचित् तप्तशिलाभिश् च क्वचिद् व्याप्तं हिमेन च
क्वचिद् वालुकया व्याप्तम् आकण्ठान्तःप्रवेशया क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः
क्वचित् सिंहैर् वृकैर् व्याघ्रैर् दशकीटैश् च दारुणैः क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः
मक्षिकाभिश् च रौद्राभिः क्वचित् सर्पविषोल्बणैः क्वचिद् दुष्टगजैश् चैव बलोन्मत्तैः प्रमाथिभिः
पन्थानम् उल्लिखद्भिश् च तीक्ष्णशृङ्गैर् महावृषैः महाशृङ्गैश् च महिषैर् उष्ट्रैर् मत्तैश् च खादनैः
डाकिनीभिश् च रौद्राभिर् विकरालैश् च राक्षसैः व्याधिभिश् च महारौद्रैः पीड्यमाना व्रजन्ति ते
महाधूलिविमिश्रेण महाचण्डेन वायुना महापाषाणवर्षेण हन्यमाना निराश्रयाः
क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते महता बाणवर्षेण भिद्यमानाश् च सर्वशः
पतद्भिर् वज्रनिर्घातैर् उल्कापातैः सुदारुणैः प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च
महता पांशुवर्षेण पूर्यमाणा रुदन्ति च मेघारवैः सुघोरैश् च वित्रास्यन्ते मुहुर् मुहुः
निःशेषाः शरवर्षेण चूर्ण्यमाणाश् च सर्वतः महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च
महाशीतेन मरुता रूक्षेण परुषेण च समन्ताद् दीर्यमाणाश् च शुष्यन्ते संकुचन्ति च
इत्थं मार्गेण पुरुषाः पाथेयरहितेन च निरालम्बेन दुर्गेण निर्जलेन समन्ततः
अतिश्रमेण महता निर्गतेनाश्रमाय वै नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः
यमदूतैर् महाघोरैस् तदाज्ञाकारिभिर् बलात् एकाकिनः पराधीना मित्रबन्धुविवर्जिताः
शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर् मुहुः प्रेतीभूता निषिद्धास् ते शुष्ककण्ठौष्ठतालुकाः
कृशाङ्गा भीतभीताश् च दह्यमानाः क्षुधाग्निना बद्धाः शृङ्खलया केचित् केचिद् उत्तानपादयोः
आकृष्यन्ते शुष्यमाणा यमदूतैर् बलोत्कटैः नरा अधोमुखाश् चान्ये कृष्यमाणाः सुदुःखिताः
अन्नपानीयरहिता याचमानाः पुनः पुनः देहि देहीति भाषन्तः साश्रुगद्गदया गिरा