उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः
धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च अश्वग्रीवो ऽश्वबाहुश् च स्वपार्श्वकगवेषणौ
अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ
असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम् महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश
वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि
आनकानां च संह्रादः सुमहान् अभवद् दिवि पपात पुष्पवर्षश् च शूरस्य जनने महान्
मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा
देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः
श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा
राजाधिदेवी च तथा पञ्चैता वीरमातरः श्रुतश्रवायां चैद्यस् तु शिशुपालो ऽभवन् नृपः
हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः
करूषाधिपतिर् वीरो दन्तवक्रो महाबलः पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत्
यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः भीमसेनस् तथा वाताद् इन्द्राच् चैव धनंजयः
लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात्
शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः उद्धवो देवभागस्य महाभागः सुतो ऽभवत्
पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम् अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम्
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान् अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम्
गण्डूषाय ह्य् अपुत्राय विष्वक्सेनो ददौ सुतान् चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम्
असंग्रामेण यो वीरो नावर्तत कदाचन रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः
वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः चारून् अद्योपभोक्ष्यामश् चारुदेष्णहतान् इति
तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तौ वीरुश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ
श्यामपुत्रः शमीकस् तु शमीको राज्यम् आवहत् जुगुप्समानो भोजत्वाद् राजसूयम् अवाप सः
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः वसुदेवसुतान् वीरान् कीर्तयिष्याम्य् अतः परम्
वृष्णेस् त्रिविधम् एवं तु बहुशाखं महौजसम् धारयन् विपुलं वंशं नानर्थैर् इह युज्यते
याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः पौरवी रोहिणी नाम मदिरादितथावरा
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता
वृकदेव्य् उपदेवी च देवकी चैव सप्तमी सुतनुर् वडवा चैव द्वे एते परिचारिके