अग्नौ विपन्ना ये वीराः साधितं यैर् अनाशकम् ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हताः
ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः पुर्यां तस्या महाघोरं सर्वसत्त्वभयंकरम्
हाहाकारसमाक्रुष्टं दक्षिणं द्वारम् ईदृशम् अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम्
कण्टकैर् वृश्चिकैः सर्पैर् वज्रकीटैः सुदुर्गमैः विलुम्पद्भिर् वृकैर् व्याघ्रैर् ऋक्षैः सिंहैः सजम्बुकैः
श्वानमार्जारगृध्रैश् च सज्वालकवलैर् मुखैः प्रवेशस् तेन वै नित्यं सर्वेषाम् अपकारिणाम्
ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम्
ये ऽगम्यागामिनो मूढाः परद्रव्यापहारिणः निक्षेपस्यापहर्तारो विषवह्निप्रदाश् च ये
परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः
ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः
अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् मातरं पितरं चैव ये वदन्ति च पौरुषम्
अन्ये ये चैव निर्दिष्टा महापातककारिणः दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् श्रोतुम् इच्छाम तद् ब्रूहि विस्तरेण तपोधन
सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् नानाश्वापदसंकीर्णं शिवाशतनिनादितम्
फेत्काररवसंयुक्तम् अगम्यं लोमहर्षणम् भूतप्रेतपिशाचैश् च वृतं चान्यैश् च राक्षसैः
एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च
ततस् ताञ् शृङ्खलैः पाशैर् बद्ध्वा कर्षन्ति निर्भयाः ताडयन्ति च दण्डैश् च भर्त्सयन्ति पुनः पुनः
लब्धसंज्ञास् ततस् ते वै रुधिरेण परिप्लुताः व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे
तीव्रकण्टकयुक्तेन शर्करानिचितेन च क्षुरधारानिभैस् तीक्ष्णैः पाषाणैर् निचितेन च
क्वचित् पङ्केन निचिता निरुत्तारैश् च खातकैः लोहसूचीनिभैर् दन्तैः संछन्नेन क्वचित् क्वचित्
तटप्रपातविषमैः पर्वतैर् वृक्षसंकुलैः प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः
क्वचिद् विषमगर्ताभिः क्वचिल् लोष्टैः सुपिच्छलैः सुतप्तवालुकाभिश् च तथा तीक्ष्णैश् च शङ्कुभिः
अयःशृङ्गाटकैस् तप्तैः क्वचिद् दावाग्निना युतम् क्वचित् तप्तशिलाभिश् च क्वचिद् व्याप्तं हिमेन च
क्वचिद् वालुकया व्याप्तम् आकण्ठान्तःप्रवेशया क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः
क्वचित् सिंहैर् वृकैर् व्याघ्रैर् दशकीटैश् च दारुणैः क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः
मक्षिकाभिश् च रौद्राभिः क्वचित् सर्पविषोल्बणैः क्वचिद् दुष्टगजैश् चैव बलोन्मत्तैः प्रमाथिभिः
पन्थानम् उल्लिखद्भिश् च तीक्ष्णशृङ्गैर् महावृषैः महाशृङ्गैश् च महिषैर् उष्ट्रैर् मत्तैश् च खादनैः
डाकिनीभिश् च रौद्राभिर् विकरालैश् च राक्षसैः व्याधिभिश् च महारौद्रैः पीड्यमाना व्रजन्ति ते
महाधूलिविमिश्रेण महाचण्डेन वायुना महापाषाणवर्षेण हन्यमाना निराश्रयाः
क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते महता बाणवर्षेण भिद्यमानाश् च सर्वशः
पतद्भिर् वज्रनिर्घातैर् उल्कापातैः सुदारुणैः प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च