भुज्यमानैश् च गन्तव्यं पापिष्ठैर् मधुघातकैः विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस् तु घातयेत्
शस्त्रैर् निकृत्यमानैश् च गन्तव्यं चातुरैर् नरैः घातयन्ति च ये जन्तूंस् ताडयन्ति निरागसः
राक्षसैर् भक्ष्यमाणास् ते यान्ति याम्यपथं नराः ये हरन्ति परस्त्रीणां वरप्रावरणानि च
ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् वासो धान्यं हिरण्यं वा गृहक्षेत्रम् अथापि वा
ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः पाषाणैर् लगुडैर् दण्डैस् ताड्यमानैस् तु जर्जरैः
वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः
ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः शुष्ककाष्ठनिबद्धास् ते छिन्नकर्णाक्षिनासिकाः
पूयशोणितदिग्धास् ते कालगृध्रैश् च जम्बुकैः किंकरैर् भीषणैश् चण्डैस् ताड्यमानाश् च दारुणैः
विक्रोशमाना गच्छन्ति पापिनस् ते यमालयम् एवं परमदुर्धर्षम् अध्वानं ज्वलनप्रभम्
रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत्
कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः शक्तिवज्रैश् च संकीर्णम् उज्ज्वलं तीव्रकण्टकम्
अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम्
अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः यदैव क्रन्दते जन्तुर् दुःखार्तः पतितः क्वचित्
तदैवाहन्यते सर्वैर् आयुधैर् यमकिंकरैः एवं संताड्यमानश् च लुब्धः पापेषु यो ऽनयः
अवशो नीयते जन्तुर् दुर्धरैर् यमकिंकरैः सर्वैर् एव हि गन्तव्यम् अध्वानं तत् सुदुर्गमम्
नीयते विविधैर् घोरैर् यमदूतैर् अवज्ञया नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः
प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः सा पुरी विपुलाकारा लक्षयोजनम् आयता
चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा प्राकाराः काञ्चनास् तस्या योजनायुतम् उच्छ्रिताः
इन्द्रनीलमहानीलपद्मरागोपशोभिता सा पुरी विविधैः संघैर् घोरा घोरैः समाकुला
देवदानवगन्धर्वैर् यक्षराक्षसपन्नगैः पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम्
वज्रेन्द्रनीलवैदूर्यमुक्ताफलविभूषितम् गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः
प्रवेशस् तेन देवानाम् ऋषीणां योगिनां तथा गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम्
उत्तरं नगरद्वारं घण्टाचामरभूषितम् छत्त्रचामरविन्यासं नानारत्नैर् अलंकृतम्
वीणारेणुरवै रम्यैर् गीतमङ्गलनादितैः ऋग्यजुःसामनिर्घोषैर् मुनिवृन्दसमाकुलम्
विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः
श्रान्तसंवाहका ये च प्रियवादरताश् च ये ये च दानरताः शूरा मातापितृपराश् च ये
द्विजशुश्रूषणे युक्ता नित्यं ये ऽतिथिपूजकाः पश्चिमं तु महाद्वारं पुर्या रत्नैर् विभूषितम्
विचित्रमणिसोपानं तोमरैः समलंकृतम् भेरीमृदङ्गसंनादैः शङ्खकाहलनादितम्
सिद्धवृन्दैः सदा हृष्टैर् मङ्गलैः प्रणिनादितम् प्रवेशस् तेन हृष्टानां शिवभक्तिमतां नृणाम्
सर्वतीर्थप्लुता ये च पञ्चाग्नेर् ये च सेवकाः प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ