वराहपशुवेतालमहिषास्यास् तथा परे नानारूपधरा घोराः सर्वप्राणिभयंकराः
दीर्घमुष्काः करालास्या वक्रनासास् त्रिलोचनाः महाहनुकपोलास्याः प्रलम्बदशनच्छदाः
निर्गतैर् विकृताकारैर् दशनैर् अङ्कुरोपमैः मांसशोणितदिग्धाङ्गा दंष्ट्राभिर् भृशम् उल्बणैः
मुखैः पातालसदृशैर् ज्वलज्जिह्वैर् भयंकरैः नेत्रैः सुविकृताकारैर् ज्वलत्पिङ्गलचञ्चलैः
मार्जारोलूकखद्योतशक्रगोपवद् उद्धतैः केकरैः संकुलैस् स्तब्धैर् लोचनैः पावकोपमैः
भृशम् आभरणैर् भीमैर् आबद्धैर् भुजगोपमैः शोणासरलगात्रैश् च मुण्डमालाविभूषितैः
कण्ठस्थकृष्णसर्पैश् च फूत्काररवभीषणैः वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर् भयंकरैः
बभ्रुपिङ्गललोलैश् च कद्रुश्मश्रुभिर् आवृताः भुजदण्डैर् महाघोरैः प्रलम्बैः परिघोपमैः
केचिद् द्विबाहवस् तत्र तथान्ये च चतुर्भुजाः द्विरष्टबाहवश् चान्ये दशविंशभुजास् तथा
असंख्यातभुजाश् चान्ये केचिद् बाहुसहस्रिणः आयुधैर् विकृताकारैः प्रज्वलद्भिर् भयानकैः
शक्तितोमरचक्राद्यैः सुदीप्तैर् विविधायुधैः पाशशृङ्खलदण्डैश् च भीषयन्तो महाबलाः
आगच्छन्ति महारौद्रा मर्त्यानाम् आयुषः क्षये ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास् तथा
यत् तच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् तद् अस्य नीयते जन्तोर् यमस्य सदनं प्रति
बद्ध्वा तत् कालपाशैश् च निगडैर् वज्रशृङ्खलैः ताडयित्वा भृशं क्रुद्धैर् नीयते यमकिंकरैः
प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर् मुहुः हा तात मातः पुत्रेति वदन्तं कर्मदूषितम्
आहत्य निशितैः शूलैर् मुद्गरैर् निशितैर् घनैः खड्गशक्तिप्रहारैश् च वज्रदण्डैः सुदारुणैः
भर्त्स्यमानो महारावैर् वज्रशक्तिसमन्वितैः एकैकशो भृशं क्रुद्धैस् ताडयद्भिः समन्ततः
स मुह्यमानो दुःखार्तः प्रतपंश् च इतस् ततः आकृष्य नीयते जन्तुर् अध्वानं सुभयंकरैः
कुशकण्टकवल्मीकशङ्कुपाषाणशर्करे तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे
प्रदीप्तादित्यतप्तेन दह्यमानस् तदंशुभिः कृष्यते यमदूतैश् च शिवासंनादभीषणैः
विकृष्यमाणस् तैर् घोरैर् भक्ष्यमाणः शिवाशतैः प्रयाति दारुणे मार्गे पापकर्मा यमालयम्
क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् दुःखेनाक्रन्दमानैश् च गन्तव्यः स महापथः
निर्भर्त्स्यमानैर् उद्विग्नैर् विद्रुतैर् भयविह्वलैः कम्पमानशरीरैस् तु गन्तव्यं जीवसंज्ञकैः
कण्टकाकीर्णमार्गेण संतप्तसिकतेन च दह्यमानैस् तु गन्तव्यं नरैर् दानविवर्जितैः
मेदःशोणितदुर्गन्धैर् बस्तगात्रैश् च पूगशः दग्धस्फुटत्वचाकीर्णैर् गन्तव्यं जीवघातकैः
कूजद्भिः क्रन्दमानैश् च विक्रोशद्भिश् च विस्वरम् वेदनार्तैश् च सद्भिश् च गन्तव्यं जीवघातकैः
शक्तिभिर् भिन्दिपालैश् च खड्गतोमरसायकैः भिद्यद्भिस् तीक्ष्णशूलाग्रैर् गन्तव्यं जीवघातकैः
श्वानैर् व्याघ्रैर् वृकैः कङ्कैर् भक्ष्यमाणैश् च पापिभिः
कृन्तद्भिः क्रकचाघातैर् गन्तव्यं मांसखादिभिः महिषर्षभशृङ्गाग्रैर् भिद्यमानैः समन्ततः
उल्लिखद्भिः शूकरैश् च गन्तव्यं मांसखादकैः सूचीभ्रमरकाकोलमक्षिकाभिश् च संघशः