यः कामान् नापि संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् यथोक्तकारी सौम्यश् च स सुखं मृत्युम् ऋच्छति
वारिदास् तृषितानां ये क्षुधितान्नप्रदायिनः प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम्
शीतं जयन्ति धनदास् तापं चन्दनदायिनः प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः
मोहं ज्ञानप्रदातारस् तथा दीपप्रदास् तमः कूटसाक्षी मृषावादी यो गुरुर् नानुशास्ति वै
ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः
आगच्छन्ति दुरात्मानो यमस्य पुरुषास् तथा प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः
क्रन्दत्य् अविरतः सो ऽथ भ्रातृमातृपितृंस् तथा सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते
दृष्टिर् विभ्राम्यते त्रासात् कासावृष्ट्य् अत्य् अथाननम् ततः स वेदनाविष्टं तच् छरीरं विमुञ्चति
वाय्वग्रसारी तद्रूपदेहम् अन्यत् प्रपद्यते तत्कर्मयातनार्थे च न मातृपितृसंभवम्
तत्प्रमाणवयोवस्थासंस्थानैः प्राप्यते व्यथा ततो दूतो यमस्याथ पाशैर् बध्नाति दारुणैः
जन्तोः संप्राप्तकालस्य वेदनार्तस्य वै भृशम् भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च
शरीराच् च्यावितो जीवो रोरवीति तथोल्बणम् निर्गतो वायुभूतस् तु षाट्कौशिककलेवरे
मातृभिः पितृभिश् चैव भ्रातृभिर् मातुलैस् तथा दारैः पुत्रैर् वयस्यैश् च गुरुभिस् त्यज्यते भुवि
दृश्यमानश् च तैर् दीनैर् अश्रुपूर्णेक्षणैर् भृशम् स्वशरीरं समुत्सृज्य वायुभूतस् तु गच्छति
अन्धकारम् अपारं च महाघोरं तमोवृतम् सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम्
दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् दुरापम् अतिदुर्गं च पापिष्ठानां सदाहितम्
कृष्यमाणाश् च तैर् भूतैर् याम्यैः पाशैस् तु संयताः मुद्गरैस् ताड्यमानाश् च नीयन्ते तं महापथम्
क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये निनीषवः समायान्ति यमदूता भयंकराः
आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च उष्ट्रेषु वानरेष्व् अन्ये वृश्चिकेषु वृकेषु च
उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः श्येनशृगालम् आरूढाः सरघाकङ्कवाहनाः
वराहपशुवेतालमहिषास्यास् तथा परे नानारूपधरा घोराः सर्वप्राणिभयंकराः
दीर्घमुष्काः करालास्या वक्रनासास् त्रिलोचनाः महाहनुकपोलास्याः प्रलम्बदशनच्छदाः
निर्गतैर् विकृताकारैर् दशनैर् अङ्कुरोपमैः मांसशोणितदिग्धाङ्गा दंष्ट्राभिर् भृशम् उल्बणैः
मुखैः पातालसदृशैर् ज्वलज्जिह्वैर् भयंकरैः नेत्रैः सुविकृताकारैर् ज्वलत्पिङ्गलचञ्चलैः
मार्जारोलूकखद्योतशक्रगोपवद् उद्धतैः केकरैः संकुलैस् स्तब्धैर् लोचनैः पावकोपमैः
भृशम् आभरणैर् भीमैर् आबद्धैर् भुजगोपमैः शोणासरलगात्रैश् च मुण्डमालाविभूषितैः
कण्ठस्थकृष्णसर्पैश् च फूत्काररवभीषणैः वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर् भयंकरैः
बभ्रुपिङ्गललोलैश् च कद्रुश्मश्रुभिर् आवृताः भुजदण्डैर् महाघोरैः प्रलम्बैः परिघोपमैः
केचिद् द्विबाहवस् तत्र तथान्ये च चतुर्भुजाः द्विरष्टबाहवश् चान्ये दशविंशभुजास् तथा
असंख्यातभुजाश् चान्ये केचिद् बाहुसहस्रिणः आयुधैर् विकृताकारैः प्रज्वलद्भिर् भयानकैः