धारणाच् छ्रवणाच् चैव पञ्चवर्गस्य भो द्विजाः क्रोष्टोर् वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम
यदोर् वंशधरस्याथ यज्विनः पुण्यकर्मिणः क्रोष्टोर् वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते यस्यान्ववायजो विष्णुर् हरिर् वृष्णिकुलोद्वहः
गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः गान्धारी जनयाम् आस अनमित्रं महाबलम्
माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम् तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः
माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा
श्वफल्कस् तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते नास्ति व्याधिभयं तत्र नावर्षस् तपम् एव च
कदाचित् काशिराजस्य विषये मुनिसत्तमाः त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः
स तत्र चानयाम् आस श्वफल्कं परमार्चितम् श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः
श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः
दाता यज्वा च वीरश् च श्रुतवान् अतिथिप्रियः अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः
उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः
धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च अश्वग्रीवो ऽश्वबाहुश् च स्वपार्श्वकगवेषणौ
अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ
असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम् महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश
वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि
आनकानां च संह्रादः सुमहान् अभवद् दिवि पपात पुष्पवर्षश् च शूरस्य जनने महान्
मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा
देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः
श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा
राजाधिदेवी च तथा पञ्चैता वीरमातरः श्रुतश्रवायां चैद्यस् तु शिशुपालो ऽभवन् नृपः
हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः
करूषाधिपतिर् वीरो दन्तवक्रो महाबलः पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत्
यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः भीमसेनस् तथा वाताद् इन्द्राच् चैव धनंजयः
लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात्
शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः उद्धवो देवभागस्य महाभागः सुतो ऽभवत्
पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम् अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम्
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान् अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम्