कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः किं रूपं किं प्रमाणं वा को वर्णस् तूभयोर् अपि जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः संसारचक्रम् अजरं स्थितिर् यस्य न विद्यते
सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति
स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः यमलोकस्य चाध्वानम् अन्तरं मानुषस्य च
योजनानां सहस्राणि षडशीतिस् तद् अन्तरम् तप्तताम्रम् इवातप्तं तद् अध्वानम् उदाहृतम्
तद् अवश्यं हि गन्तव्यं प्राणिभिर् जीवसंज्ञकैः पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो ऽधमाः
द्वाविंशतिश् च नरका यमस्य विषये स्थिताः येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक्
नरको रौरवो रौद्रः शूकरस् ताल एव च कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः
कीटादः कृमिभक्षश् च नालाभक्षो भ्रमस् तथा नद्यः पूयवहाश् चान्या रुधिराम्भस् तथैव च
अग्निज्वालो महाघोरः संदंशः शुनभोजनः घोरा वैतरणी चैव असिपत्त्रवनं तथा
न तत्र वृक्षच्छाया वा न तडागाः सरांसि च न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा
न मण्डपो नायतनं न नद्यो न च पर्वताः न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि
यत्र विश्रमते श्रान्तः पुरुषो ऽतीवकर्षितः अवश्यम् एव गन्तव्यः स सर्वैस् तु महापथः
प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् जरायुजाण्डजाश् चैव स्वेदजाश् चोद्भिजास् तथा
जङ्गमाजङ्गमाश् चैव गमिष्यन्ति महापथम् देवासुरमनुष्यैश् च वैवस्वतवशानुगैः
स्त्रीपुंनपुंसकैश् चैव पृथिव्यां जीवसंज्ञितैः पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः
संध्याकाले ऽर्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते वृद्धैर् वा मध्यमैर् वापि यौवनस्थैस् तथैव च
गर्भवासे ऽथ बाल्ये वा गन्तव्यः स महापथः प्रवासस्थैर् गृहस्थैर् वा पर्वतस्थैः स्थले ऽपि वा
क्षेत्रस्थैर् वा जलस्थैर् वा गृहमध्यगतैस् तथा आसीनैश् चास्थितैर् वापि शयनीयगतैस् तथा
जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यः स महापथः इहानुभूय निर्दिष्टम् आयुर् जन्तुः स्वयं तदा
तस्यान्ते च स्वयं प्राणैर् अनिच्छन्न् अपि मुच्यते जलम् अग्निर् विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः
निमित्तं किंचिद् आसाद्य देही प्राणैर् विमुच्यते विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम्
अन्यच् छरीरम् आदत्ते यातनीयं स्वकर्मजम् दृढं शरीरम् आप्नोति सुखदुःखोपभुक्तये
तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् सुखानि धार्मिको हृष्ट इह नीतो यमक्षये
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः
उदानो नाम पवनस् ततश् चोर्ध्वं प्रवर्तते भुज्यताम् अम्बुभक्ष्याणाम् अधोगतिनिरोधकृत्
ततो येनाम्बुदानानि कृतान्य् अन्नरसास् तथा दत्ताः स तस्याम् आह्लादम् आपदि प्रतिपद्यते
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा सो ऽपि तृप्तिम् अवाप्नोति विनाप्य् अन्नेन वै तदा
येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च आस्तिकः श्रद्दधानश् च सुखमृत्युं स गच्छति
देवब्राह्मणपूजायां निरताश् चानसूयकाः शुक्ला वदान्या ह्रीमन्तस् ते नराः सुखमृत्यवः