विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः
एताश् च योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ऋद्धिं समृद्धिं विपुलांश् च भोगान् प्राप्नोति शीघ्रं भगवत्प्रसादात्
एवं मया मुनिश्रेष्ठा विष्णोर् अमिततेजसः सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः
न तृप्तिम् अधिगच्छामः पुण्यधर्मामृतस्य च मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः
उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् वेत्सि सर्वं मुने तेन पृच्छामस् त्वां महामतिम्
श्रूयते यमलोकस्य मार्गः परमदुर्गमः दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः
कथं तेन नरा यान्ति मार्गेण यमसादनम् प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर
मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वम् अशेषतः कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने
केनोपायेन दानेन धर्मेण नियमेन च मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम्
कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च
कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः किं रूपं किं प्रमाणं वा को वर्णस् तूभयोर् अपि जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः संसारचक्रम् अजरं स्थितिर् यस्य न विद्यते
सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति
स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः यमलोकस्य चाध्वानम् अन्तरं मानुषस्य च
योजनानां सहस्राणि षडशीतिस् तद् अन्तरम् तप्तताम्रम् इवातप्तं तद् अध्वानम् उदाहृतम्
तद् अवश्यं हि गन्तव्यं प्राणिभिर् जीवसंज्ञकैः पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो ऽधमाः
द्वाविंशतिश् च नरका यमस्य विषये स्थिताः येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक्
नरको रौरवो रौद्रः शूकरस् ताल एव च कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः
कीटादः कृमिभक्षश् च नालाभक्षो भ्रमस् तथा नद्यः पूयवहाश् चान्या रुधिराम्भस् तथैव च
अग्निज्वालो महाघोरः संदंशः शुनभोजनः घोरा वैतरणी चैव असिपत्त्रवनं तथा
न तत्र वृक्षच्छाया वा न तडागाः सरांसि च न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा
न मण्डपो नायतनं न नद्यो न च पर्वताः न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि
यत्र विश्रमते श्रान्तः पुरुषो ऽतीवकर्षितः अवश्यम् एव गन्तव्यः स सर्वैस् तु महापथः
प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् जरायुजाण्डजाश् चैव स्वेदजाश् चोद्भिजास् तथा
जङ्गमाजङ्गमाश् चैव गमिष्यन्ति महापथम् देवासुरमनुष्यैश् च वैवस्वतवशानुगैः
स्त्रीपुंनपुंसकैश् चैव पृथिव्यां जीवसंज्ञितैः पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः
संध्याकाले ऽर्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते वृद्धैर् वा मध्यमैर् वापि यौवनस्थैस् तथैव च
गर्भवासे ऽथ बाल्ये वा गन्तव्यः स महापथः प्रवासस्थैर् गृहस्थैर् वा पर्वतस्थैः स्थले ऽपि वा
क्षेत्रस्थैर् वा जलस्थैर् वा गृहमध्यगतैस् तथा आसीनैश् चास्थितैर् वापि शयनीयगतैस् तथा
जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यः स महापथः इहानुभूय निर्दिष्टम् आयुर् जन्तुः स्वयं तदा