अपरः केशवस्यायं प्रादुर्भावो महात्मनः विख्यातो माथुरे कल्पे सर्वलोकहिताय वै
यत्र शाल्वं च चैद्यं च कंसं द्विविदम् एव च अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा दैत्यान् मानुषदेहेन सूदयाम् आस वीर्यवान्
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः नरकश् च हतः संख्ये यवनश् च महाबलः
हृतानि च महीपानां सर्वरत्नानि तेजसा दुराचाराश् च निहिताः पार्थिवा ये महीतले
एष लोकहितार्थाय प्रादुर्भावो महात्मनः कल्की विष्णुयशा नाम शम्भलग्रामसंभवः
सर्वलोकहितार्थाय भूयो देवो महायशाः एते चान्ये च बहवो दिव्या देवगणैर् वृताः
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम्
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर् विभोः प्रीयन्ते पितरस् तस्य प्रादुर्भावानुकीर्तनात्
विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः
एताश् च योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ऋद्धिं समृद्धिं विपुलांश् च भोगान् प्राप्नोति शीघ्रं भगवत्प्रसादात्
एवं मया मुनिश्रेष्ठा विष्णोर् अमिततेजसः सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः
न तृप्तिम् अधिगच्छामः पुण्यधर्मामृतस्य च मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः
उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् वेत्सि सर्वं मुने तेन पृच्छामस् त्वां महामतिम्
श्रूयते यमलोकस्य मार्गः परमदुर्गमः दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः
कथं तेन नरा यान्ति मार्गेण यमसादनम् प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर
मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वम् अशेषतः कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने
केनोपायेन दानेन धर्मेण नियमेन च मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम्
कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च
कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः किं रूपं किं प्रमाणं वा को वर्णस् तूभयोर् अपि जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः संसारचक्रम् अजरं स्थितिर् यस्य न विद्यते
सो ऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति
स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः यमलोकस्य चाध्वानम् अन्तरं मानुषस्य च
योजनानां सहस्राणि षडशीतिस् तद् अन्तरम् तप्तताम्रम् इवातप्तं तद् अध्वानम् उदाहृतम्
तद् अवश्यं हि गन्तव्यं प्राणिभिर् जीवसंज्ञकैः पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो ऽधमाः
द्वाविंशतिश् च नरका यमस्य विषये स्थिताः येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक्
नरको रौरवो रौद्रः शूकरस् ताल एव च कुम्भीपाको महाघोरः शाल्मलो ऽथ विमोहनः
कीटादः कृमिभक्षश् च नालाभक्षो भ्रमस् तथा नद्यः पूयवहाश् चान्या रुधिराम्भस् तथैव च
अग्निज्वालो महाघोरः संदंशः शुनभोजनः घोरा वैतरणी चैव असिपत्त्रवनं तथा