रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने पूर्वोदिता तु या लक्ष्मीर् भर्तारम् अनुगच्छति
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः
सीतायाः पदम् अन्विच्छन् निजघान महायशाः देवासुरगणानां च यक्षराक्षसभोगिनाम्
यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् युक्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम्
त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम्
दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् जघान सचिवैः सार्धं ससैन्यं रावणं युधि
महाभ्रगणसंकाशं महाकायं महाबलम् रावणं निजघानाशु रामो भूतपतिः पुरा
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः वाली विनिहतः संख्ये सुग्रीवश् चाभिषेचितः
मधोश् च तनयो दृप्तो लवणो नाम दानवः हतो मधुवने वीरो वरमत्तो महासुरः
यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् मारीचश् च सुबाहुश् च बलेन बलिनां वरौ
निहतौ च निराशौ च कृतौ तेन महात्मना समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः
विराधश् च कबन्धश् च राक्षसौ भीमविक्रमौ जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ
हुताशनार्कांशुतडिद्गुणाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः महेन्द्रवज्राशनितुल्यसारै रिपून् स रामः समरे निजघ्ने
तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैर् अपि
वर्तमाने मखे येन जनकस्य महात्मनः भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान्
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ न वित्तहरणं चासीद् रामे राज्यं प्रशासति
परिदेवन्ति विधवा नानर्थाश् च कदाचन सर्वम् आसीच् छुभं तत्र रामे राज्यं प्रशासति
न प्राणिनां भयं चासीज् जलाग्न्यनिलघातजम् न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे
ब्रह्मचर्यपरं क्षत्रं विशस् तु क्षत्रिये रताः शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहंकृताः
नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः सर्वम् आसीज् जगद् दान्तं निर्दस्युर् अभवन् मही
राम एको ऽभवद् भर्ता रामः पालयिताभवत् आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः
अरोगाः प्राणिनश् चासन् रामे राज्यं प्रशासति देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः
पृथिव्यां समवायो ऽभूद् रामे राज्यं प्रशासति गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः दश वर्षसहस्राणि रामो राज्यम् अकारयत्
ऋक्सामयजुषां घोषो ज्याघोषश् च महात्मनः अव्युच्छिन्नो ऽभवद् राष्ट्रे दीयतां भुज्यताम् इति
सत्त्ववान् गुणसंपन्नो दीप्यमानः स्वतेजसा अति चन्द्रं च सूर्यं च रामो दाशरथिर् बभौ
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः हित्वायोध्यां दिवं यातो राघवो हि महाबलः
एवम् एव महाबाहुर् इक्ष्वाकुकुलनन्दनः रावणं सगणं हत्वा दिवम् आचक्रमे विभुः