यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम्
वारणांस् तुरगाञ् शुभ्रान् रथांश् च रथिनां वरः हिरण्यम् अक्षयं धेनुर् गजेन्द्रांश् च महीपतिः
ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः अद्यापि च हितार्थाय लोकानां भृगुनन्दनः
चरमाणस् तपो घोरं जामदग्न्यः पुनः प्रभुः आस्ते वै देववच् छ्रीमान् महेन्द्रे पर्वतोत्तमे
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः
चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः
कृत्वात्मानं महाबाहुश् चतुर्धा प्रभुर् ईश्वरः लोके राम इति ख्यातस् तेजसा भास्करोपमः
प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः
तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतहिते रतम् यः समाः सर्वधर्मज्ञश् चतुर्दश वने ऽवसत्
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः
रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने पूर्वोदिता तु या लक्ष्मीर् भर्तारम् अनुगच्छति
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः
सीतायाः पदम् अन्विच्छन् निजघान महायशाः देवासुरगणानां च यक्षराक्षसभोगिनाम्
यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् युक्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम्
त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम्
दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् जघान सचिवैः सार्धं ससैन्यं रावणं युधि
महाभ्रगणसंकाशं महाकायं महाबलम् रावणं निजघानाशु रामो भूतपतिः पुरा
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः वाली विनिहतः संख्ये सुग्रीवश् चाभिषेचितः
मधोश् च तनयो दृप्तो लवणो नाम दानवः हतो मधुवने वीरो वरमत्तो महासुरः
यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् मारीचश् च सुबाहुश् च बलेन बलिनां वरौ
निहतौ च निराशौ च कृतौ तेन महात्मना समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः
विराधश् च कबन्धश् च राक्षसौ भीमविक्रमौ जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ
हुताशनार्कांशुतडिद्गुणाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः महेन्द्रवज्राशनितुल्यसारै रिपून् स रामः समरे निजघ्ने
तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैर् अपि
वर्तमाने मखे येन जनकस्य महात्मनः भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान्
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ न वित्तहरणं चासीद् रामे राज्यं प्रशासति
परिदेवन्ति विधवा नानर्थाश् च कदाचन सर्वम् आसीच् छुभं तत्र रामे राज्यं प्रशासति
न प्राणिनां भयं चासीज् जलाग्न्यनिलघातजम् न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे
ब्रह्मचर्यपरं क्षत्रं विशस् तु क्षत्रिये रताः शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहंकृताः