युगे युगे भवन्त्य् एते पुनर् दक्षादयो नृपाः पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति
ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां पूर्वं नासीद् द्विजोत्तमाः तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम्
इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते
देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः
मानसान्य् एव भूतानि पूर्वम् एवासृजत् प्रभुः ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान्
यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः
स मैथुनेन धर्मेण सिसृक्षुर् विविधाः प्रजाः असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान्
असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः
देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् नाशाय वचनं तेषां शापायैवात्मनस् तथा
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः
तं भूयो जनयाम् आस पितेव मुनिपुंगवम् तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः
ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ततो ऽभिसंधिश् चक्रे वै दक्षस्य परमेष्ठिना
कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः
कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा प्रजापतेः सूतवर्य श्रोतुम् इच्छाम तत्त्वतः
दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः समागता महावीर्या नारदस् तान् उवाच ह
बालिशा बत यूयं वै नास्या जानीत वै भुवः प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः
अन्तर् ऊर्ध्वम् अधश् चैव कथं सृजथ वै प्रजाः ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः
वैरण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः विवर्धयिषवस् ते तु शबलाश्वास् तथा प्रजाः
पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः
भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः
ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः
तदा प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजाः प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता
तांश् चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः षष्टिं ततो ऽसृजत् कन्या वैरण्याम् इति नः श्रुतम्
तास् तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः सोमो धर्मश् च भो विप्रास् तथैवान्ये महर्षयः
ददौ स दश धर्माय कश्यपाय त्रयोदश सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने