असिलोमा पुलोमा च बाष्कलः प्रमदो मदः स्वमिश्रः कालवदनः करालः केशिर् एव च
एकाक्षश् चन्द्रमा राहुः संह्रादः सम्बरः स्वनः शतघ्नीचक्रहस्ताश् च तथा मुशलपाणयः
अश्वयन्त्रायुधोपेता भिन्दिपालायुधास् तथा शूलोलूखलहस्ताश् च परश्वधधरास् तथा
पाशमुद्गरहस्ताश् च तथा परिघपाणयः महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः
नानाप्रहरणा घोरा नानावेशा महाबलाः कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा
खरोष्ट्रवदनाश् चैव वराहवदनास् तथा मार्जारशिखिवक्त्राश् च महावक्त्रास् तथा परे
नक्रमेषाननाः शूरा गोजाविमहिषाननाः गोधाशल्लकिवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः
आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा भीमा मकरवक्त्राश् च क्रौञ्चवक्त्राश् च दानवाः
अश्वाननाः खरमुखा मयूरवदनास् तथा गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः
चीरसंवृतगात्राश् च तथा नीलकवाससः उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः नानावेशधरा दैत्या नानामाल्यानुलेपनाः
स्वान्य् आयुधानि संगृह्य प्रदीप्तानि च तेजसा क्रममाणं हृषीकेशम् उपावर्तन्त सर्वशः
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर् विभुः रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ
परम् आक्रममाणस्य जानुदेशे व्यवस्थितौ विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः
हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान् ददौ शक्राय वसुधां विष्णुर् बलवतां वरः
एष वो वामनो नाम प्रादुर्भावो महात्मनः वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः दत्तात्रेय इति ख्यातः क्षमया परया युतः
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते
अतिवर्धति चाधर्मे सत्ये नष्टे ऽनृते स्थिते प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै चातुर्वर्ण्यम् असंकीर्णं कृतं तेन महात्मना
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः वरदेन वरो दत्तो दत्तात्रेयेण धीमता
एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप शतानि दश बाहूनां भविष्यन्ति न संशयः
पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर दुर्निरीक्ष्यो ऽरिवृन्दानां युद्धस्थश् च भविष्यसि
एष वो वैष्णवः श्रीमान् प्रादुर्भावो ऽद्भुतः शुभः भूयश् च जामदग्न्यो ऽयं प्रादुर्भावो महात्मनः
यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे रामो ऽर्जुनम् अनीकस्थं जघान नृपतिं प्रभुः
रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत्
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै
कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता
कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः सर्वपापविनाशाय वाजिमेधेन चेष्टवान्