यदा वरमदोन्मत्तो विचरन् दानवो भुवि यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः
आदित्या वसवः साध्या विश्वे च मरुतस् तथा शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम्
देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् नारायणं विभुं देवं शरण्यं शरणं गताः
त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् भयात् त्वं हि नः परमो देवस् त्वं हि नः परमो गुरुः
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयंकर क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः
भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम्
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम्
एवम् उक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् हिरण्यकशिपोः स्थानम् आजगाम महाबलः
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना
घनजीमूतसंकाशो घनजीमूतनिस्वनः घनजीमूतदीप्तौजा जीमूत इव वेगवान्
दैत्यं सो ऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः दृप्तैर् दैत्यगणैर् गुप्तं हतवान् एकपाणिना
नृसिंह एष कथितो भूयो ऽयं वामनः परः यत्र वामनम् आस्थाय रूपं दैत्यविनाशनम्
बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः
विप्रचित्तिः शिवः शङ्कुर् अयःशङ्कुस् तथैव च अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान्
वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः पुष्करः पुष्कलश् चैव शाश्वो ऽश्वपतिर् एव च
प्रह्लादो ऽश्वपतिः कुम्भः संह्रादो गमनप्रियः अनुह्रादो हरिहयो वाराहः संहरो ऽनुजः
शरभः शलभश् चैव कुपथः क्रोधनः क्रथः बृहत्कीर्तिर् महाजिह्वः शङ्कुकर्णो महास्वनः
दीप्तजिह्वो ऽर्कनयनो मृगपादो मृगप्रियः वायुर् गरिष्ठो नमुचिः सम्बरो विस्करो महान्
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च कालकः कालकोपश् च वृत्रः क्रोधो विरोचनः
गरिष्ठश् च वरिष्ठश् च प्रलम्बनरकाव् उभौ इन्द्रतापनवातापी केतुमान् बलदर्पितः
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः स्वमिश्रः कालवदनः करालः केशिर् एव च
एकाक्षश् चन्द्रमा राहुः संह्रादः सम्बरः स्वनः शतघ्नीचक्रहस्ताश् च तथा मुशलपाणयः
अश्वयन्त्रायुधोपेता भिन्दिपालायुधास् तथा शूलोलूखलहस्ताश् च परश्वधधरास् तथा
पाशमुद्गरहस्ताश् च तथा परिघपाणयः महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः
नानाप्रहरणा घोरा नानावेशा महाबलाः कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा
खरोष्ट्रवदनाश् चैव वराहवदनास् तथा मार्जारशिखिवक्त्राश् च महावक्त्रास् तथा परे
नक्रमेषाननाः शूरा गोजाविमहिषाननाः गोधाशल्लकिवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः
आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा भीमा मकरवक्त्राश् च क्रौञ्चवक्त्राश् च दानवाः
अश्वाननाः खरमुखा मयूरवदनास् तथा गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः
चीरसंवृतगात्राश् च तथा नीलकवाससः उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः