दिशाभिः प्रदिशाभिश् च नदीभिः सागरैस् तथा नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः
देवर्षिभिस् तपोवृद्धैः सिद्धैर् विद्वद्भिर् एव च राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः
चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस् तथा ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत्
प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह
शपेयुस् तपसा युक्ता वर एष वृतो मया न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्य् अधः पाणिप्रहारेणैकेन सभृत्यबलवाहनम्
यो मां नाशयितुं शक्तः स मे मृत्युर् भविष्यति भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः
सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः अहं क्रोधश् च कामश् च वरुणो वासवो यमः धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः
एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः सर्वान् कामान् इमांस् तात प्राप्स्यसि त्वं न संशयः
एवम् उक्त्वा तु भगवाञ् जगामाशु पितामहः वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्
ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः
वरेणानेन भगवन् बाधिष्यति स नो ऽसुरः तत् प्रसीदाशु भगवन् वधो ऽप्य् अस्य विचिन्त्यताम्
भगवन् सर्वभूतानां स्वयंभूर् आदिकृत् प्रभुः स्रष्टा च हव्यकव्यानाम् अव्यक्तं प्रकृतिर् ध्रुवम्
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तथा
अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम् तपसो ऽन्ते च भगवान् वधं विष्णुः करिष्यति
एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः
लब्धमात्रे वरे चापि सर्वाः सो ऽबाधत प्रजाः हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः
आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् सत्यधर्मरतान् दान्तांस् तदा धर्षितवांस् तथा
त्रिदिवस्थांस् तथा देवान् पराजित्य महाबलः त्रैलोक्यं वशम् आनीय स्वर्गे वसति सो ऽसुरः
यदा वरमदोन्मत्तो विचरन् दानवो भुवि यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः
आदित्या वसवः साध्या विश्वे च मरुतस् तथा शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम्
देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् नारायणं विभुं देवं शरण्यं शरणं गताः
त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् भयात् त्वं हि नः परमो देवस् त्वं हि नः परमो गुरुः
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयंकर क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः
भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम् तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम्
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम्
एवम् उक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् हिरण्यकशिपोः स्थानम् आजगाम महाबलः
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना
घनजीमूतसंकाशो घनजीमूतनिस्वनः घनजीमूतदीप्तौजा जीमूत इव वेगवान्