आहुर् वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः
प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः भूयश् चैव भविष्यन्ति ह्य् एवम् आह पितामहः
यत् पृच्छध्वं महाभागा दिव्यां पुण्याम् इमां कथाम् प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम्
शृणुध्वं तां महाभागास् तद्गतेनान्तरात्मना प्रवक्ष्याम्य् आनुपूर्व्येण यत् पृच्छध्वं ममानघाः
वासुदेवस्य माहात्म्यं चरितं च महामतेः हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च
बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् प्रादुर्भावांश् च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान्
सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः
ब्रह्मा च कपिलश् चैव त्र्यम्बकस् त्रिदशास् तथा देवाः सप्तर्षयश् चैव नागाश् चाप्सरसस् तथा
सनत्कुमारश् च महानुभावो मनुर् महात्मा भगवान् प्रजाकरः पुराणदेवो ऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः
यो ऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे नष्टे देवासुरनरे प्रनष्टोरगराक्षसे
योद्धुकामौ दुराधर्षौ ताव् उभौ मधुकैटभौ हतौ भगवता तेन तयोर् दत्त्वामितं वरम्
पुरा कमलनाभस्य स्वपतः सागराम्भसि पुष्करे तत्र संभूता देवाः सर्षिगणास् तथा
एष पौष्करको नाम प्रादुर्भावो महात्मनः पुराणं कथ्यते यत्र देवश्रुतिसमाहितम्
वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः
वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान्
सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः प्रायश्चित्तनखो घोरः पशुजानुर् मुखाकृतिः
उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् अन्वितः
दक्षिणाहृदयो योगी महासत्त्रमयो महान् उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः छायापत्नीसहायो ऽसौ मणिशृङ्ग इवोत्थितः
महीं सागरपर्यन्तां सशैलवनकाननाम् एकार्णवजलभ्रष्टाम् एकार्णवगतः प्रभुः
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया सहस्रशीर्षो लोकादिश् चकार जगतीं पुनः
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना उद्धृता पृथिवी देवी सागराम्बुधरा पुरा
वाराह एष कथितो नारसिंहस् ततो द्विजाः यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः
पुरा कृतयुगे नाम सुरारिर् बलदर्पितः दैत्यानाम् आदिपुरुषश् चकार सुमहत् तपः
दश वर्षसहस्राणि शतानि दश पञ्च च जपोपवासनिरतस् तस्थौ मौनव्रतस्थितः
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि प्रीतो ऽभवत् ततस् तस्य तपसा नियमेन च
तं वै स्वयंभूर् भगवान् स्वयम् आगम्य भो द्विजाः विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर् वसुभिः सार्धं मरुद्भिर् दैवतैस् तथा रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः