मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ
इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ
एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः
तत् त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम्
भवतां चोपसंहारम् आसन्नं तेन कुर्वता बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम्
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः विप्रयोगावसानं तु संयोगः संचयः क्षयः
विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः
तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम्
तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु
इत्य् उक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम्
इत्य् एवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् जातस्य च यदोर् वंशे वासुदेवस्य चेष्टितम्
अहो कृष्णस्य माहात्म्यम् अद्भुतं चातिमानुषम् रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम्
न तृप्तिम् अधिगच्छामः शृण्वन्तो भगवत्कथाम् तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम्
प्रादुर्भावः पुराणेषु विष्णोर् अमिततेजसः सतां कथयताम् एव वराह इति नः श्रुतम्
न जानीमो ऽस्य चरितं न विधिं न च विस्तरम् न कर्मगुणसद्भावं न हेतुत्वमनीषितम्
किमात्मको वराहो ऽसौ का मूर्तिः का च देवता किमाचारप्रभावो वा किं वा तेन तदा कृतम्
यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् महावराहचरितं सर्वलोकसुखावहम्
यथा नारायणो ब्रह्मन् वाराहं रूपम् आस्थितः दंष्ट्रया गां समुद्रस्थाम् उज्जहारारिमर्दनः
विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः श्रोतुं नो वर्तते बुद्धिर् हरेः कृष्णस्य धीमतः
कर्मणाम् आनुपूर्व्या च प्रादुर्भावाश् च ये विभो या वास्य प्रकृतिर् ब्रह्मंस् ताश् चाख्यातुं त्वम् अर्हसि
प्रश्नभारो महान् एष भवद्भिः समुदाहृतः यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः
विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिर् उत्थिता तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् सहस्रशिरसं देवं सहस्रकरम् अव्ययम्
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् सहस्रदं सहस्रादिं सहस्रभुजम् अव्ययम्
हवनं सवनं चैव होतारं हव्यम् एव च पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम्
स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः
यूपं चक्रं ध्रुवां दर्वीं चरूंश् चोलूखलानि च प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत्
ह्रस्वाण्य् अतिप्रमाणानि स्थावराणि चराणि च प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास् तथा
मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् अग्रासिनं सोमभुजं हुतार्चिषम् उदायुधम्