तस्मात् पार्थ न संतापस् त्वया कार्यः पराभवात् भवन्ति भवकालेषु पुरुषाणां पराक्रमाः
यतस् त्वयैकेन हता भीष्मद्रोणादयो नृपाः तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः
विष्णोस् तस्यानुभावेन यथा तेषां पराभवः त्वत्तस् तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः
स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम् करोति सर्वभूतानां नाशं चान्ते जगत्पतिः
भवोद्भवे च कौन्तेय सहायस् ते जनार्दनः भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः
कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान् आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम्
पार्थैतत् सर्वभूतेषु हरेर् लीलाविचेष्टितम् त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः
गृहीता दस्युभिर् यच् च रक्षिता भवता स्त्रियः तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन
अष्टावक्रः पुरा विप्र उदवासरतो ऽभवत् बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम्
जितेष्व् असुरसंघेषु मेरुपृष्ठे महोत्सवः बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः
रम्भातिलोत्तमाद्याश् च शतशो ऽथ सहस्रशः तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव
आकण्ठमग्नं सलिले जटाभारधरं मुनिम् विनयावनताश् चैव प्रणेमुः स्तोत्रतत्पराः
यथा यथा प्रसन्नो ऽभूत् तुष्टुवुस् तं तथा तथा सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम्
प्रसन्नो ऽहं महाभागा भवतीनां यद् इष्यते मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अपि दुर्लभम्
रम्भातिलोत्तमाद्याश् च दिव्याश् चाप्सरसो ऽब्रुवन्
प्रसन्ने त्वय्य् असंप्राप्तं किम् अस्माकम् इति द्विजाः
इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवन् यदि तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम्
एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन
यस्माद् विरूपरूपं मां मत्वा हासावमानना भवतीभिः कृता तस्माद् एष शापं ददामि वः
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ
इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ
एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः
तत् त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम्
भवतां चोपसंहारम् आसन्नं तेन कुर्वता बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम्
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः विप्रयोगावसानं तु संयोगः संचयः क्षयः
विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः
तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम्
तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु
इत्य् उक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः