श्रुत्वाहं तस्य तद् वाक्यम् अब्रवं द्विजसत्तमाः दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः
अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि अवेहि सर्वभूतेषु कालस्य गतिर् ईदृशी
कालो भवाय भूतानाम् अभवाय च पाण्डव कालमूलम् इदं ज्ञात्वा कुरु स्थैर्यम् अतो ऽर्जुन
नद्यः समुद्रा गिरयः सकला च वसुंधरा देवा मनुष्याः पशवस् तरवश् च सरीसृपाः
सृष्टाः कालेन कालेन पुनर् यास्यन्ति संक्षयम् कालात्मकम् इदं सर्वं ज्ञात्वा शमम् अवाप्नुहि
यथात्थ कृष्णमाहात्म्यं तत् तथैव धनंजय भारावतारकार्यार्थम् अवतीर्णः स मेदिनीम्
भाराक्रान्ता धरा याता देवानां संनिधौ पुरा तदर्थम् अवतीर्णो ऽसौ कामरूपी जनार्दनः
तच् च निष्पादितं कार्यम् अशेषा भूभृतो हताः वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम्
न किंचिद् अन्यत् कर्तव्यम् अस्य भूमितले ऽर्जुन ततो गतः स भगवान् कृतकृत्यो यथेच्छया
सृष्टिं सर्गे करोत्य् एष देवदेवः स्थितिं स्थितौ अन्ते तापसमर्थो ऽयं सांप्रतं वै यथा कृतम्
तस्मात् पार्थ न संतापस् त्वया कार्यः पराभवात् भवन्ति भवकालेषु पुरुषाणां पराक्रमाः
यतस् त्वयैकेन हता भीष्मद्रोणादयो नृपाः तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः
विष्णोस् तस्यानुभावेन यथा तेषां पराभवः त्वत्तस् तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः
स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम् करोति सर्वभूतानां नाशं चान्ते जगत्पतिः
भवोद्भवे च कौन्तेय सहायस् ते जनार्दनः भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः
कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान् आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम्
पार्थैतत् सर्वभूतेषु हरेर् लीलाविचेष्टितम् त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः
गृहीता दस्युभिर् यच् च रक्षिता भवता स्त्रियः तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन
अष्टावक्रः पुरा विप्र उदवासरतो ऽभवत् बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम्
जितेष्व् असुरसंघेषु मेरुपृष्ठे महोत्सवः बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः
रम्भातिलोत्तमाद्याश् च शतशो ऽथ सहस्रशः तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव
आकण्ठमग्नं सलिले जटाभारधरं मुनिम् विनयावनताश् चैव प्रणेमुः स्तोत्रतत्पराः
यथा यथा प्रसन्नो ऽभूत् तुष्टुवुस् तं तथा तथा सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम्
प्रसन्नो ऽहं महाभागा भवतीनां यद् इष्यते मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अपि दुर्लभम्
रम्भातिलोत्तमाद्याश् च दिव्याश् चाप्सरसो ऽब्रुवन्
प्रसन्ने त्वय्य् असंप्राप्तं किम् अस्माकम् इति द्विजाः
इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवन् यदि तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम्
एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन
यस्माद् विरूपरूपं मां मत्वा हासावमानना भवतीभिः कृता तस्माद् एष शापं ददामि वः