वह्निना चाक्षया दत्ताः शरास् ते ऽपि क्षयं ययुः युध्यतः सह गोपालैर् अर्जुनस्याभवत् क्षयः
अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् यन् मया शरसंघातैः सबला भूभृतो जिताः
मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः अपाकृष्यन्त चाभीरैः कामाच् चान्याः प्रवव्रजुः
ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् द्विजाः
पश्यतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः जग्मुर् आदाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः
ततः स दुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन् अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै
तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा
अहो चाति बलं दैवं विना तेन महात्मना यद् असामर्थ्ययुक्तो ऽहं नीचैर् नीतः पराभवम्
तौ बाहू स च मे मुष्टिः स्थानं तत् सो ऽस्मि चार्जुनः पुण्येनेव विना तेन गतं सर्वम् असारताम्
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् विना तेन यद् आभीरैर् जितो ऽहं कथम् अन्यथा
इत्थं वदन् ययौ जिष्णुर् इन्द्रप्रस्थं पुरोत्तमम् चकार तत्र राजानं वज्रं यादवनन्दनम्
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् तम् उपेत्य महाभागं विनयेनाभ्यवादयत्
तं वन्दमानं चरणाव् अवलोक्य सुनिश्चितम् उवाच पार्थं विच्छायः कथम् अत्यन्तम् ईदृशः
अजारजोनुगमनं ब्रह्महत्याथवा कृता जयाशाभङ्गदुःखी वा भ्रष्टच्छायो ऽसि सांप्रतम्
सांतानिकादयो वा ते याचमाना निराकृताः अगम्यस्त्रीरतिर् वापि तेनासि विगतप्रभः
भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टम् एकम् अथो भवान् किं वा कृपणवित्तानि हृतानि भवतार्जुन
कच्चिन् न सूर्यवातस्य गोचरत्वं गतो ऽर्जुन दुष्टचक्षुर् हतो वापि निःश्रीकः कथम् अन्यथा
स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितो ऽपि वा तेनातीवासि विच्छायो न्यूनैर् वा युधि निर्जितः
ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम्
यद् बलं यच् च नस् तेजो यद् वीर्यं यत् पराक्रमः या श्रीश् छाया च नः सो ऽस्मान् परित्यज्य हरिर् गतः
इतरेणेव महता स्मितपूर्वाभिभाषिणा हीना वयं मुने तेन जातास् तृणमया इव
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम सारता याभवन् मूर्ता स गतः पुरुषोत्तमः
यस्यावलोकनाद् अस्माञ् श्रीर् जयः संपद् उन्नतिः न तत्याज स गोविन्दस् त्यक्त्वास्मान् भगवान् गतः
भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः यत्प्रभावेन निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम्
निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही विभाति तात नैको ऽहं विरहे तस्य चक्रिणः
यस्यानुभावाद् भीष्माद्यैर् मय्य् अग्नौ शलभायितम् विना तेनाद्य कृष्णेन गोपालैर् अस्मि निर्जितः
गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः मम तेन विनाभीरैर् लगुडैस् तु तिरस्कृतम्
स्त्रीसहस्राण्य् अनेकानि ह्य् अनाथानि महामुने यततो मम नीतानि दस्युभिर् लगुडायुधैः
आनीयमानम् आभीरैः सर्वं कृष्णावरोधनम् हृतं यष्टिप्रहरणैः परिभूय बलं मम
निःश्रीकता न मे चित्रं यज् जीवामि तद् अद्भुतम् नीचावमानपङ्काङ्की निर्लज्जो ऽस्मि पितामह