योगे स्थित्वाहम् अप्य् एतत् परित्यज्य कलेवरम् वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः
यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति तस्माद् रथैः सुसज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे तेनैव सह गन्तव्यं यत्र याति स कौरवः
गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनं मम पालनीयस् त्वया शक्त्या जनो ऽयं मत्परिग्रहः
इत्य् अर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति
इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम्
स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम्
भगवान् अपि गोविन्दो वासुदेवात्मकं परम् ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत्
स मानयन् द्विजवचो दुर्वासा यद् उवाच ह योगयुक्तो ऽभवत् पादं कृत्वा जानुनि सत्तमाः
संप्राप्तो वै जरा नाम तदा तत्र स लुब्धकः मुशलशेषलोहस्य सायकं धारयन् परम्
स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः
गतश् च ददृशे तत्र चतुर्बाहुधरं नरम् प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः
अजानता कृतम् इदं मया हरिणशङ्कया क्षम्यताम् आत्मपापेन दग्धं मा दग्धुम् अर्हसि
ततस् तं भगवान् आह नास्ति ते भयम् अण्व् अपि गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम्
विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम् आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः
गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले
अजन्मन्य् अजरे ऽनाशिन्य् अप्रमेये ऽखिलात्मनि त्यक्त्वा स मानुषं देहम् अवाप त्रिविधां गतिम्
अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात्
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः उपगृह्य हरेर् देहं विविशुस् ता हुताशनम्
रेवती चैव रामस्य देहम् आश्लिष्य सत्तमाः विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम्
उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः देवकी रोहिणी चैव विविशुर् जातवेदसम्
ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः वज्रं जनं च कौन्तेयः पालयञ् शनकैर् ययौ
सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता स्वर्गं जगाम भो विप्राः पारिजातश् च पादपः
यस्मिन् दिने हरिर् यातो दिवं संत्यज्य मेदिनीम् तस्मिन् दिने ऽवतीर्णो ऽयं कालकायः कलिः किल
प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः यदुश्रेष्ठगृहं त्व् एकं नाप्लावयत सागरः
नातिक्रामति भो विप्रास् तद् अद्यापि महोदधिः नित्यं संनिहितस् तत्र भगवान् केशवो यतः
तद् अतीव महापुण्यं सर्वपातकनाशनम् विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते चकार वासं सर्वस्य जनस्य मुनिसत्तमाः
ततो लोभः समभवत् पार्थेनैकेन धन्विना दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः