निवारयाम् आस हरिर् यादवास् ते च केशवम् सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम्
कृष्णो ऽपि कुपितस् तेषाम् एरकामुष्टिम् आददे वधाय तेषां मुशलं मुष्टिलोहम् अभूत् तदा
जघान तेन निःशेषान् आततायी स यादवान् जघ्नुश् च सहसाभ्येत्य तथान्ये तु परस्परम्
ततश् चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः पश्यतो दारुकस्याशु हृतो ऽश्वैर् द्विजसत्तमाः
चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खो ऽसिर् एव च प्रदक्षिणं ततः कृत्वा जग्मुर् आदित्यवर्त्मना
क्षणमात्रेण वै तत्र यादवानाम् अभूत् क्षयः ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः
चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् ददृशाते मुखाच् चास्य निष्क्रामन्तं महोरगम्
निष्क्रम्य स मुखात् तस्य महाभोगो भुजंगमः प्रयातश् चार्णवं सिद्धैः पूज्यमानस् तथोरगैः
तम् अर्घ्यम् आदाय तदा जलधिः संमुखं ययौ प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः
इदं सर्वं त्वम् आचक्ष्व वसुदेवोग्रसेनयोः निर्याणं बलदेवस्य यादवानां तथा क्षयम्
योगे स्थित्वाहम् अप्य् एतत् परित्यज्य कलेवरम् वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः
यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति तस्माद् रथैः सुसज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे तेनैव सह गन्तव्यं यत्र याति स कौरवः
गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनं मम पालनीयस् त्वया शक्त्या जनो ऽयं मत्परिग्रहः
इत्य् अर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति
इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम्
स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम्
भगवान् अपि गोविन्दो वासुदेवात्मकं परम् ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत्
स मानयन् द्विजवचो दुर्वासा यद् उवाच ह योगयुक्तो ऽभवत् पादं कृत्वा जानुनि सत्तमाः
संप्राप्तो वै जरा नाम तदा तत्र स लुब्धकः मुशलशेषलोहस्य सायकं धारयन् परम्
स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः
गतश् च ददृशे तत्र चतुर्बाहुधरं नरम् प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः
अजानता कृतम् इदं मया हरिणशङ्कया क्षम्यताम् आत्मपापेन दग्धं मा दग्धुम् अर्हसि
ततस् तं भगवान् आह नास्ति ते भयम् अण्व् अपि गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम्
विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम् आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः
गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले
अजन्मन्य् अजरे ऽनाशिन्य् अप्रमेये ऽखिलात्मनि त्यक्त्वा स मानुषं देहम् अवाप त्रिविधां गतिम्
अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात्
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः उपगृह्य हरेर् देहं विविशुस् ता हुताशनम्
रेवती चैव रामस्य देहम् आश्लिष्य सत्तमाः विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम्