तद् अप्य् अम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः घातितस्योदरात् तस्य लुब्धो जग्राह तज् जरा
विज्ञातपरमार्थो ऽपि भगवान् मधुसूदनः नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम्
देवैश् च प्रहितो दूतः प्रणिपत्याह केशवम् रहस्य् एवम् अहं दूतः प्रहितो भगवन् सुरैः
वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह विज्ञापयति वः शक्रस् तद् इदं श्रूयतां प्रभो
भारावतरणार्थाय वर्षाणाम् अधिकं शतम् भगवान् अवतीर्णो ऽत्र त्रिदशैः संप्रसादितः
दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः त्वया सनाथास् त्रिदशा व्रजन्तु त्रिदिवेशताम्
तद् अतीतं जगन्नाथ वर्षाणाम् अधिकं शतम् इदानीं गम्यतां स्वर्गो भवता यदि रोचते
देवैर् विज्ञापितो देवो ऽप्य् अथात्रैव रतिस् तव तत् स्थीयतां यथाकालम् आख्येयम् अनुजीविभिः
यत् त्वम् आत्थाखिलं दूत वेद्मि चैतद् अहं पुनः प्रारब्ध एव हि मया यादवानाम् अपि क्षयः
भुवो नामातिभारो ऽयं यादवैर् अनिबर्हितैः अवतारं करोम्य् अस्य सप्तरात्रेण सत्वरः
यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः यादवान् उपसंहृत्य यास्यामि त्रिदशालयम्
मनुष्यदेहम् उत्सृज्य संकर्षणसहायवान् प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः
जरासंधादयो ये ऽन्ये निहता भारहेतवः क्षितेस् तेभ्यः स भारो हि यदूनां समधीयत
तद् एतत् सुमहाभारम् अवतार्य क्षितेर् अहम् यास्याम्य् अमरलोकस्य पालनाय ब्रवीहि तान्
इत्य् उक्तो वासुदेवेन देवदूतः प्रणम्य तम् द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ
भगवान् अप्य् अथोत्पातान् दिव्यान् भौमान्तरिक्षगान् ददर्श द्वारकापुर्यां विनाशाय दिवानिशम्
तान् दृष्ट्वा यादवान् आह पश्यध्वम् अतिदारुणान् महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम्
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्
भगवन् यन् मया कार्यं तद् आज्ञापय सांप्रतम् मन्ये कुलम् इदं सर्वं भगवान् संहरिष्यति नाशायास्य निमित्तानि कुलस्याच्युत लक्षये
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया बदरीम् आश्रमं पुण्यं गन्धमादनपर्वते
नरनारायणस्थाने पवित्रितमहीतले मन्मना मत्प्रसादेन तत्र सिद्धिम् अवाप्स्यसि
अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति
इत्य् उक्तः प्रणिपत्यैनं जगाम स तदोद्धवः नरनारायणस्थानं केशवेनानुमोदितः
ततस् ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान् प्रभासं प्रययुः सार्धं कृष्णरामादिभिर् द्विजाः
प्राप्य प्रभासं प्रयता प्रीतास् ते कुक्कुरान्धकाः चक्रुस् तत्र सुरापानं वासुदेवानुमोदिताः
पिबतां तत्र वै तेषां संघर्षेण परस्परम् यादवानां ततो जज्ञे कलहाग्निः क्षयावहः
जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात् कृताः क्षीणशस्त्रास् तु जगृहुः प्रत्यासन्नाम् अथैरकाम्
एरका तु गृहीता तैर् वज्रभूतेव लक्ष्यते तया परस्परं जघ्नुः संप्रहारैः सुदारुणैः
प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः अनिरुद्धादयश् चान्ये पृथुर् विपृथुर् एव च
चारुवर्मा सुचारुश् च तथाक्रूरादयो द्विजाः एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम्