क्वचिच् च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा
पुनश् चार्णवमध्यस्थः क्षोभयाम् आस सागरम् तेनातिक्षोभितश् चाब्धिर् उद्वेलो जायते द्विजाः
प्लावयंस् तीरजान् ग्रामान् पुरादीन् अतिवेगवान् कामरूपं महारूपं कृत्वा सस्यान्य् अनेकशः
लुठन् भ्रमणसंमर्दैः संचूर्णयति वानरः तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना
निःस्वाध्यायवषट्कारं द्विजाश् चासीत् सुदुःखितम् कदाचिद् रैवतोद्याने पपौ पानं हलायुधः
रेवती च महाभागा तथैवान्या वरस्त्रियः उद्गीयमानो विलसल्ललनामौलिमध्यगः
रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम्
मुशलं च चकारास्य संमुखः स विडम्बनाम् तथैव योषितां तासां जहासाभिमुखं कपिः
पानपूर्णांश् च करकांश् चिक्षेपाहत्य वै तदा ततः कोपपरीतात्मा भर्त्सयाम् आस तं बलम्
तथापि तम् अवज्ञाय चक्रे किलकिलाध्वनिम् ततः समुत्थाय बलो जगृहे मुशलं रुषा
सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा
बिभेद यादवश्रेष्ठः सा पपात महीतले अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवंगमः
वेगेनायम्य रोषेण बलेनोरस्य् अताडयत् ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः पतता तच्छरीरेण गिरेः शृङ्गम् अशीर्यत
मुनयः शतधा वज्रिवज्रेणेव हि ताडितम् पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः
प्रशशंसुस् तदाभ्येत्य साध्व् एतत् ते महत् कृतम् अनेन दुष्टकपिना दैत्यपक्षोपकारिणा जगन् निराकृतं वीर दिष्ट्या स क्षयम् आगतः
एवंविधान्य् अनेकानि बलदेवस्य धीमतः कर्माण्य् अपरिमेयानि शेषस्य धरणीभृतः
एवं दैत्यवधं कृष्णो बलदेवसहायवान् चक्रे दुष्टक्षितीशानां तथैव जगतः कृते
क्षितेश् च भारं भगवान् फाल्गुनेन समं विभुः अवतारयाम् आस हरिः समस्ताक्षौहिणीवधात्
कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम्
उत्सृज्य द्वारकां कृष्णस् त्यक्त्वा मानुष्यम् आत्मभूः स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर् निजम्
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् कथं च मानुषं देहम् उत्ससर्ज जनार्दनः
विश्वामित्रस् तथा कण्वो नारदश् च महामुनिः पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः
ततस् ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा प्रसृतास् तान् मुनीन् ऊचुः प्रणिपातपुरःसरम्
इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति
दिव्यज्ञानोपपन्नास् ते विप्रलब्धा कुमारकैः शापं ददुस् तदा विप्रास् तेषां नाशाय सुव्रताः
मुनयः कुपिताः प्रोचुर् मुशलं जनयिष्यति येनाखिलकुलोत्सादो यादवानां भविष्यति
इत्य् उक्तास् तैः कुमारास् त आचचक्षुर् यथातथम् उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात्
तद् उग्रसेनो मुशलम् अयश्चूर्णम् अकारयत् जज्ञे तच् चैरका चूर्णं प्रक्षिप्तं वै महोदधौ
मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर् द्विजाः खण्डं चूर्णयितुं शेकुर् नैव ते तोमराकृति