प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः न नाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः
गर्वम् आरोपिता यूयं समानासनभोजनैः को दोषो भवतां नीतिर् यत् प्रीणात्य् अनपेक्षिता
अस्माभिर् अर्च्यो भवता यो ऽयं बल निवेदितः प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम्
इत्य् उक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् कृतैकनिश्चयाः सर्वे विविशुर् गजसाह्वयम्
मत्तः कोपेन चाघूर्णं ततो ऽधिक्षेपजन्मना उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः
ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः आस्फोटयाम् आस तदा दिशः शब्देन पूरयन् उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः
अहो महावलेपो ऽयम् असाराणां दुरात्मनाम् कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम्
उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्य् अलङ्घनाम् आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः
सदाध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने
पारिजाततरोः पुष्पमञ्जरीर् वनिताजनः बिभर्ति यस्य भृत्यानां सो ऽप्य् एषां न महीपतिः
समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु अद्य निष्कौरवाम् उर्वीं कृत्वा यास्यामि तां पुरीम्
कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम् दुःशासनादीन् भूरिं च भूरिश्रवसम् एव च
सोमदत्तं शलं भीमम् अर्जुनं सयुधिष्ठिरम् यमजौ कौरवांश् चान्यान् हन्यां साश्वरथद्विपान्
वीरम् आदाय तं साम्बं सपत्नीकं ततः पुरीम् द्वारकाम् उग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान्
अथवा कौरवादीनां समस्तैः कुरुभिः सह भारावतरणे शीघ्रं देवराजेन चोदितः
भागीरथ्यां क्षिपाम्य् आशु नगरं नागसाह्वयम्
इत्य् उक्त्वा क्रोधरक्ताक्षस् तालाङ्को ऽधोमुखं हलम् प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः
आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् दृष्ट्वा संक्षुब्धहृदयाश् चुक्रुशुः सर्वकौरवाः
राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया उपसंह्रियतां कोपः प्रसीद मुशलायुध
एष साम्बः सपत्नीकस् तव निर्यातितो बल अविज्ञातप्रभावाणां क्षम्यताम् अपराधिनाम्
ततो निर्यातयाम् आसुः साम्बं पत्न्या समन्वितम् निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् क्षान्तम् एव मयेत्य् आह बलो बलवतां वरः
अद्याप्य् आघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः एष प्रभावो रामस्य बलशौर्यवतो द्विजाः
ततस् तु कौरवाः साम्बं संपूज्य हलिना सह प्रेषयाम् आसुर् उद्वाहधनभार्यासमन्वितम्
शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः सखाभवन् महावीर्यो द्विविदो नाम वानरः
वैरानुबन्धं बलवान् स चकार सुरान् प्रति
नरकं हतवान् कृष्णो बलदर्पसमन्वितम् करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम्
यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ततो विध्वंसयाम् आस यज्ञान् अज्ञानमोहितः
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ददाह चपलो देशं पुरग्रामान्तराणि च