विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तमाः ततः काशिबलं भूरि प्रमथानां तथा बलम्
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलम् ओजसा
कृत्वाक्षेमाम् अशेषां तां पुरीं वाराणसीं ययौ प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम्
अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैर् अपि ज्वालापरिवृताशेषगृहप्राकारतोरणाम्
ददाह तां पुरीं चक्रं सकलाम् एव सत्वरम् अक्षीणामर्षम् अत्यल्पसाध्यसाधननिस्पृहम् तच् चक्रं प्रस्फुरद्दीप्ति विष्णोर् अभ्याययौ करम्
श्रोतुम् इच्छामहे भूयो बलभद्रस्य धीमतः मुने पराक्रमं शौर्यं तन् नो व्याख्यातुम् अर्हसि
यमुनाकर्षणादीनि श्रुतान्य् अस्माभिर् अत्र वै तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः
शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् अनन्तेनाप्रमेयेन शेषेण धरणीभृता
दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः भीष्मद्रोणादयश् चैव बबन्धुर् युधि निर्जितम्
तच् छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु मुनयः प्रतिचक्रुश् च तान् विहन्तुं महोद्यमम्
तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् मोक्ष्यन्ति ते मद्वचनाद् यास्याम्य् एको हि कौरवान्
बलदेवस् ततो गत्वा नगरं नागसाह्वयम् बाह्योपवनमध्ये ऽभून् न विवेश च तत् पुरम्
बलम् आगतम् आज्ञाय तदा दुर्योधनादयः गाम् अर्घम् उदकं चैव रामाय प्रत्यवेदयन् गृहीत्वा विधिवत् सर्वं ततस् तान् आह कौरवान्
आज्ञापयत्य् उग्रसेनः साम्बम् आशु विमुञ्चत
ततस् तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः कर्णदुर्योधनाद्याश् च चुक्रुधुर् द्विजसत्तमाः
ऊचुश् च कुपिताः सर्वे बाह्लिकाद्याश् च भूमिपाः अराजार्हं यदोर् वंशम् अवेक्ष्य मुशलायुधम्
भो भोः किम् एतद् भवता बलभद्रेरितं वचः आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति
उग्रसेनो ऽपि यद्य् आज्ञां कौरवाणां प्रदास्यति तद् अलं पाण्डुरैश् छत्त्रैर् नृपयोग्यैर् अलंकृतैः
तद् गच्छ बलभद्र त्वं साम्बम् अन्यायचेष्टितम् विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात्
प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः न नाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः
गर्वम् आरोपिता यूयं समानासनभोजनैः को दोषो भवतां नीतिर् यत् प्रीणात्य् अनपेक्षिता
अस्माभिर् अर्च्यो भवता यो ऽयं बल निवेदितः प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम्
इत्य् उक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् कृतैकनिश्चयाः सर्वे विविशुर् गजसाह्वयम्
मत्तः कोपेन चाघूर्णं ततो ऽधिक्षेपजन्मना उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः
ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः आस्फोटयाम् आस तदा दिशः शब्देन पूरयन् उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः
अहो महावलेपो ऽयम् असाराणां दुरात्मनाम् कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम्
उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्य् अलङ्घनाम् आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः
सदाध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने
पारिजाततरोः पुष्पमञ्जरीर् वनिताजनः बिभर्ति यस्य भृत्यानां सो ऽप्य् एषां न महीपतिः