निजचिह्नम् अहं चक्रं समुत्स्रक्ष्ये त्वयीति वै वाच्यश् च पौण्ड्रको गत्वा त्वया दूत वचो मम
ज्ञातस् त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् गृहीतचिह्न एवाहम् आगमिष्यामि ते पुरम्
उत्स्रक्ष्यामि च ते चक्रं निजचिह्नम् असंशयम् आज्ञापूर्वं च यद् इदम् आगच्छेति त्वयोदितम्
संपादयिष्ये श्वस् तुभ्यं तद् अप्य् एषो ऽविलम्बितम् शरणं ते समभ्येत्य कर्तास्मि नृपते तथा यथा त्वत्तो भयं भूयो नैव किंचिद् भविष्यति
इत्य् उक्ते ऽपगते दूते संस्मृत्याभ्यागतं हरिः गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ
तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस् तदा सर्वसैन्यपरीवारपार्ष्णिग्राहम् उपाययौ
ततो बलेन महता काशिराजबलेन च पौण्ड्रको वासुदेवो ऽसौ केशवाभिमुखं ययौ
तं ददर्श हरिर् दूराद् उदारस्यन्दने स्थितम् चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम्
स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः
किरीटकुण्डलधरं पीतवासःसमन्वितम् दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्मुकशालिना
क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अग्निविदारणैः गदाचक्रातिपातैश् च सूदयाम् आस तद्बलम्
काशिराजबलं चैव क्षयं नीत्वा जनार्दनः उवाच पौण्ड्रकं मूढम् आत्मचिह्नोपलक्षणम्
पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति समुत्सृजेति चिह्नानि तत् ते संपादयाम्य् अहम्
चक्रम् एतत् समुत्सृष्टं गदेयं ते विसर्जिता गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम्
इत्य् उच्चार्य विमुक्तेन चक्रेणासौ विदारितः पोथितो गदया भग्नो गरुत्मांश् च गरुत्मता
ततो हाहाकृते लोके काशीनाम् अधिपस् तदा युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः
ततः शार्ङ्गविनिर्मुक्तैश् छित्त्वा तस्य शरैः शिरः काशिपुर्यां स चिक्षेप कुर्वंल् लोकस्य विस्मयम्
हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् रेमे द्वारवतीं प्राप्तो ऽमरः स्वर्गगतो यथा
तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे जनः किम् एतद् इत्य् आह केनेत्य् अत्यन्तविस्मितः
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस् ततः पुरोहितेन सहितस् तोषयाम् आस शंकरम्
अविमुक्ते महाक्षेत्रे तोषितस् तेन शंकरः वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम्
स वव्रे भगवन् कृत्या पितुर् हन्तुर् वधाय मे समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर
एवं भविष्यतीत्य् उक्ते दक्षिणाग्नेर् अनन्तरम् महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात्
ततो ज्वालाकरालास्या ज्वलत्केशकलापिका कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ
ताम् अवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् ययौ शरण्यं जगतां शरणं मधुसूदनम्
काशिराजसुतेनेयम् आराध्य वृषभध्वजम् उत्पादिता महाकृत्या वधाय तव चक्रिणः जहि कृत्याम् इमाम् उग्रां वह्निज्वालाजटाकुलाम्
चक्रम् उत्सृष्टम् अक्षेषु क्रीडासक्तेन लीलया तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम्
कृत्याम् अनुजगामाशु विष्णुचक्रं सुदर्शनम् ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा
जगाम वेगिनी वेगात् तद् अप्य् अनुजगाम ताम् कृत्या वाराणसीम् एव प्रविवेश त्वरान्विता