बलभद्रो महावीर्यो बाणसैन्यम् अनेकधा विव्याध बाणैः प्रद्युम्नो धर्मतश् चापलायतः
आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् बलं बलेन ददृशे बाणो बाणैश् च चक्रिणः
ततः कृष्णस्य बाणेन युद्धम् आसीत् समासतः परस्परं तु संदीप्तान् कायत्राणविभेदिनः
कृष्णश् चिच्छेद बाणांस् तान् बाणेन प्रहिताञ् शरैः बिभेद केशवं बाणो बाणं विव्याध चक्रधृक्
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया परस्परक्षतिपरौ परिघांश् च ततो द्विजाः
छिद्यमानेष्व् अशेषेषु शस्त्रेष्व् अस्त्रे च सीदति प्राचुर्येण हरिर् बाणं हन्तुं चक्रे ततो मनः
ततो ऽर्कशतसंभूततेजसा सदृशद्युति जग्राह दैत्यचक्रारिर् हरिश् चक्रं सुदर्शनम्
मुञ्चतो बाणनाशाय तच् चक्रं मधुविद्विषः नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः
ताम् अग्रतो हरिर् दृष्ट्वा मीलिताक्षः सुदर्शनम् मुमोच बाणम् उद्दिश्य छेत्तुं बाहुवनं रिपोः
क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् छेदं चक्रे ऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम्
छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः मुमुक्षुर् बाणनाशाय विज्ञातस् त्रिपुरद्विषा
स उत्पत्याह गोविन्दं सामपूर्वम् उमापतिः विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम्
कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् परेशं परमात्मानम् अनादिनिधनं परम्
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा
तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः
अस्मत्संश्रयवृद्धो ऽयं नापराधस् तवाव्यय मया दत्तवरो दैत्यस् ततस् त्वां क्षमयाम्य् अहम्
इत्य् उक्तः प्राह गोविन्दः शूलपाणिम् उमापतिम् प्रसन्नवदनो भूत्वा गतामर्षो ऽसुरं प्रति
युष्मद्दत्तवरो बाणो जीवताद् एष शंकर त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम्
त्वया यद् अभयं दत्तं तद् दत्तम् अभयं मया मत्तो ऽविभिन्नम् आत्मानं द्रष्टुम् अर्हसि शंकर
यो ऽहं स त्वं जगच् चेदं सदेवासुरमानुषम् अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः
इत्य् उक्त्वा प्रययौ कृष्णः प्राद्युम्निर् यत्र तिष्ठति तद्बन्धफणिनो नेशुर् गरुडानिलशोषिताः
ततो ऽनिरुद्धम् आरोप्य सपत्नीकं गरुत्मति आजग्मुर् द्वारकां रामकार्ष्णिदामोदराः पुरीम्
चक्रे कर्म महच् छौरिर् बिभ्रद् यो मानुषीं तनुम् जिगाय शक्रं शर्वं च सर्वदेवांश् च लीलया
यच् चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः
गदतो मे मुनिश्रेष्ठाः श्रूयताम् इदम् आदरात् नरावतारे कृष्णेन दग्धा वाराणसी यथा
पौण्ड्रको वासुदेवश् च वासुदेवो ऽभवद् भुवि अवतीर्णस् त्वम् इत्य् उक्तो जनैर् अज्ञानमोहितैः
स मेने वासुदेवो ऽहम् अवतीर्णो महीतले नष्टस्मृतिस् ततः सर्वं विष्णुचिह्नम् अचीकरत् दूतं च प्रेषयाम् आस स कृष्णाय द्विजोत्तमाः
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः वासुदेवात्मकं मूढ मुक्त्वा सर्वम् अशेषतः
आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज
इत्य् उक्तः स प्रहस्यैव दूतं प्राह जनार्दनः