तस्मै दत्तो वरान् प्रादाच् चतुरो भूरितेजसः पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम्
अधर्मे ऽधीयमानस्य सद्भिस् तत्र निवारणम् उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम्
संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः संग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे
तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः योगाद् योगीश्वरस्येव प्रादुर्भवति मायया
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ससमुद्रा सनगरा उग्रेण विधिना जिता
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः
सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः सर्वे काञ्चनयूपाश् च सर्वे काञ्चनवेदयः
सर्वे देवैर् मुनिश्रेष्ठा विमानस्थैर् अलंकृतैः गन्धर्वैर् अप्सरोभिश् च नित्यम् एवोपशोभिताः
यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस् तथा वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः यज्ञैर् दानैस् तपोभिश् च विक्रमेण श्रुतेन च
स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी रथी द्वीपान् अनुचरन् योगी संदृश्यते नृभिः
अनष्टद्रव्यता चैव न शोको न च विभ्रमः प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः
स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह स एव पशुपालो ऽभूत् क्षेत्रपालः स एव च
स एव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनो ऽभवत् स वै बाहुसहस्रेण ज्याघातकठिनत्वचा
भाति रश्मिसहस्रेण शरदीव च भास्करः स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः
कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् स वै वेगं समुद्रस्य प्रावृट्काले ऽम्बुजेक्षणः
क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश् चकार ह लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी
चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ
भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम्
मारुताविद्धफेनौघम् आवर्तक्षोभसंकुलम् प्रावर्तयत् तदा राजा सहस्रेण च बाहुना
देवासुरसमाक्षिप्तः क्षीरोदम् इव मन्दरः मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् नता निश्चलमूर्धानो बभूवुस् ते महोरगाः
सायाह्ने कदलीखण्डाः कम्पिता इव वायुना स वै बद्ध्वा धनुर् ज्याभिर् उत्सिक्तं पञ्चभिः शरैः
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् निर्जित्य वशम् आनीय माहिष्मत्यां बबन्ध तम्
श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्व् अर्जुनेन च ततो गत्वा पुलस्त्यस् तम् अर्जुनं ददृशे स्वयम्
मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः
युगान्ते तोयदस्येव स्फुटतो ह्य् अशनेर् इव अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत्
राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा तृषितेन कदाचित् स भिक्षितश् चित्रभानुना
स भिक्षाम् अददाद् वीरः सप्त द्वीपान् विभावसोः पुराणि ग्रामघोषांश् च विषयांश् चैव सर्वशः
जज्वाल तस्य सर्वाणि चित्रभानुर् दिधृक्षया स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः