कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जायतेक्षणा प्रद्युम्नदर्शने व्रीडादृष्टिं निन्ये ततो द्विजाः
दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता सो ऽयं सो ऽयं ममेत्य् उक्ते तया सा योगगामिनी ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखी
बाणो ऽपि प्रणिपत्याग्रे ततश् चाह त्रिलोचनम्
देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम् कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः भविष्यति विना युद्धं भाराय मम किं भुजैः
मयूरध्वजभङ्गस् ते यदा बाण भविष्यति पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम्
ततः प्रणम्य मुदितः शंभुम् अभ्यागतो गृहात् भग्नं ध्वजम् अथालोक्य हृष्टो हर्षं परं ययौ
एतस्मिन्न् एव काले तु योगविद्याबलेन तम् अनिरुद्धम् अथानिन्ये चित्रलेखा वरा सखी
कन्यान्तःपुरमध्ये तं रममाणं सहोषया विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना जघान परिघं लौहम् आदाय परवीरहा
हतेषु तेषु बाणो ऽपि रथस्थस् तद्वधोद्यतः युध्यमानो यथाशक्ति यदा वीरेण निर्जितः
मायया युयुधे तेन स तदा मन्त्रचोदितः ततश् च पन्नगास्त्रेण बबन्ध यदुनन्दनम्
द्वारवत्यां क्व यातो ऽसाव् अनिरुद्धेति जल्पताम् यदूनाम् आचचक्षे तं बद्धं बाणेन नारदः
तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया योषिता प्रत्ययं जग्मुर् यादवा नाम वैरिति
ततो गरुडम् आरुह्य स्मृतमात्रागतं हरिः बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम्
पुरीप्रवेशे प्रमथैर् युद्धम् आसीन् महाबलैः ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः
ततस् त्रिपादस् त्रिशिरा ज्वरो माहेश्वरो महान् बाणरक्षार्थम् अत्यर्थं युयुधे शार्ङ्गधन्वना
तद्भस्मस्पर्शसंभूततापं कृष्णाङ्गसंगमात् अवाप बलदेवो ऽपि समं संमीलितेक्षणः
ततः संयुध्यमानस् तु सह देवेन शार्ङ्गिणा वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः
नारायणभुजाघातपरिपीडनविह्वलम् तं वीक्ष्य क्षम्यताम् अस्येत्य् आह देवः पितामहः
ततश् च क्षान्तम् एवेति प्रोच्य तं वैष्णवं ज्वरम् आत्मन्य् एव लयं निन्ये भगवान् मधुसूदनः
मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः विज्वरास् ते भविष्यन्तीत्य् उक्त्वा चैनं ययौ हरिः
ततो ऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा दानवानां बलं विष्णुश् चूर्णयाम् आस लीलया
ततः समस्तसैन्येन दैतेयानां बलेः सुतः युयुधे शंकरश् चैव कार्त्तिकेयश् च शौरिणा
हरिशंकरयोर् युद्धम् अतीवासीत् सुदारुणम् चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर् बहुधार्दिताः
प्रलयो ऽयम् अशेषस्य जगतो नूनम् आगतः मेनिरे त्रिदशा यत्र वर्तमाने महाहवे
जृम्भणास्त्रेण गोविन्दो जृम्भयाम् आस शंकरम् ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः
जृम्भाभिभूतश् च हरो रथोपस्थम् उपाविशत् न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा
गरुडक्षतबाहुश् च प्रद्युम्नास्त्रेण पीडितः कृष्णहुंकारनिर्धूतशक्तिश् चापययौ गुहः
जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना
नन्दीशसंगृहीताश्वम् अधिरूढो महारथम् बाणस् तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह