प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः भान्वादिकांश् च वै पुत्रान् सत्यभामा व्यजायत
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास् तनया हरेः बभूवुर् जाम्बवत्याश् च साम्बाद्या बाहुशालिनः
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः संग्रामजित्प्रधानास् तु शैब्यायां चाभवन् सुताः
वृकाद्यास् तु सुता माद्री गात्रवत्प्रमुखान् सुतान् अवाप लक्ष्मणा पुत्रान् कालिन्द्याश् च श्रुतादयः
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः अष्टायुतानि पुत्राणां सहस्राणि शतं तथा
प्रद्युम्नः प्रमुखस् तेषां रुक्मिण्यास् तु सुतस् ततः प्रद्युम्नाद् अनिरुद्धो ऽभूद् वज्रस् तस्माद् अजायत
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तमाः
यत्र युद्धम् अभूद् घोरं हरिशंकरयोर् महत् छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा
कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः
एतत् सर्वं महाभाग वक्तुम् अर्हसि नो ऽखिलम् महत् कौतूहलं जातं श्रोतुम् एतां कथां शुभाम्
उषा बाणसुता विप्राः पार्वतीं शंभुना सह क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् ततः सकलचित्तज्ञा गौरी ताम् आह भामिनीम्
अलम् इत्य् अनुतापेन भर्त्रा त्वम् अपि रंस्यसे
इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती
वैशाखे शुक्लद्वादश्यां स्वप्ने यो ऽभिभवं तव करिष्यति स ते भर्ता राजपुत्रि भविष्यति
तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ततः प्रबुद्धा पुरुषम् अपश्यन्ती तम् उत्सुका
क्व गतो ऽसीति निर्लज्जा द्विजाश् चोक्तवती सखीम् बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा तु तत्सुता
तस्याः सख्य् अभवत् सा च प्राह को ऽयं त्वयोच्यते यदा लज्जाकुला नास्य कथयाम् आस सा सखी
तदा विश्वासम् आनीय सर्वम् एवान्ववेदयत् विदितायां तु ताम् आह पुनर् ऊषा यथोदितम् देव्या तथैव तत्प्राप्तौ यो ऽभ्युपायः कुरुष्व तम्
ततः पटे सुरान् दैत्यान् गन्धर्वांश् च प्रधानतः मनुष्यांश् चाभिलिख्यासौ चित्रलेखाप्य् अदर्शयत्
अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान् मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु
कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जायतेक्षणा प्रद्युम्नदर्शने व्रीडादृष्टिं निन्ये ततो द्विजाः
दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता सो ऽयं सो ऽयं ममेत्य् उक्ते तया सा योगगामिनी ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखी
बाणो ऽपि प्रणिपत्याग्रे ततश् चाह त्रिलोचनम्
देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम् कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः भविष्यति विना युद्धं भाराय मम किं भुजैः
मयूरध्वजभङ्गस् ते यदा बाण भविष्यति पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम्
ततः प्रणम्य मुदितः शंभुम् अभ्यागतो गृहात् भग्नं ध्वजम् अथालोक्य हृष्टो हर्षं परं ययौ
एतस्मिन्न् एव काले तु योगविद्याबलेन तम् अनिरुद्धम् अथानिन्ये चित्रलेखा वरा सखी
कन्यान्तःपुरमध्ये तं रममाणं सहोषया विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना जघान परिघं लौहम् आदाय परवीरहा
हतेषु तेषु बाणो ऽपि रथस्थस् तद्वधोद्यतः युध्यमानो यथाशक्ति यदा वीरेण निर्जितः