यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये यस्माद् यतश् च न भविष्यति सर्वभूतात् तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य
सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा विदितसकलवेदैर् ज्ञायते यस्य नान्यैः तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं जगदुपकृतिम् आद्यं को विजेतुं समर्थः
संस्तुतो भगवान् इत्थं देवराजेन केशवः प्रहस्य भावगम्भीरम् उवाचेदं द्विजोत्तमाः
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते क्षन्तव्यं भवतैवैतद् अपराधकृतं मम
पारिजाततरुश् चायं नीयताम् उचितास्पदम् गृहीतो ऽयं मया शक्र सत्यावचनकारणात्
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया तवैवैतत् प्रहरणं शक्र वैरिविदारणम्
विमोहयसि माम् ईश मर्त्यो ऽहम् इति किं वदन् जानीमस् त्वां भगवतो ऽनन्तसौख्यविदो वयम्
यो ऽसि सो ऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन
नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम् मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि
तथेत्य् उक्त्वा तु देवेन्द्रम् आजगाम भुवं हरिः प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस् त्व् अथर्षिभिः
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् ततः शङ्खम् उपाध्माय द्वारकोपरि संस्थितः
हर्षम् उत्पादयाम् आस द्वारकावासिनां द्विजाः अवतीर्याथ गरुडात् सत्यभामासहायवान्
निष्कुटे स्थापयाम् आस पारिजातं महातरुम् यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम्
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ततस् ते यादवाः सर्वे देवगन्धान् अमानुषान्
ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम्
स्त्रियश् च कृष्णो जग्राह नरकस्य परिग्रहात् ततः काले शुभे प्राप्त उपयेमे जनार्दनः
ताः कन्या नरकावासात् सर्वतो याः समाहृताः एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः
जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः षोडश स्त्रीसहस्राणि शतम् एकं तथाधिकम्
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः एकैकशश् च ताः कन्या मेनिरे मधुसूदनम्
ममैव पाणिग्रहणं गोविन्दः कृतवान् इति निशासु जगतः स्रष्टा तासां गेहेषु केशवः उवास विप्राः सर्वासां विश्वरूपधरो हरिः
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः भान्वादिकांश् च वै पुत्रान् सत्यभामा व्यजायत
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास् तनया हरेः बभूवुर् जाम्बवत्याश् च साम्बाद्या बाहुशालिनः
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः संग्रामजित्प्रधानास् तु शैब्यायां चाभवन् सुताः
वृकाद्यास् तु सुता माद्री गात्रवत्प्रमुखान् सुतान् अवाप लक्ष्मणा पुत्रान् कालिन्द्याश् च श्रुतादयः
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः अष्टायुतानि पुत्राणां सहस्राणि शतं तथा
प्रद्युम्नः प्रमुखस् तेषां रुक्मिण्यास् तु सुतस् ततः प्रद्युम्नाद् अनिरुद्धो ऽभूद् वज्रस् तस्माद् अजायत
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तमाः
यत्र युद्धम् अभूद् घोरं हरिशंकरयोर् महत् छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा
कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः
एतत् सर्वं महाभाग वक्तुम् अर्हसि नो ऽखिलम् महत् कौतूहलं जातं श्रोतुम् एतां कथां शुभाम्