पाशं सलिलराजस्य समाकृष्योरगाशनः चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत्
यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् पृथिव्यां पातयाम् आस भगवान् देवकीसुतः
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः चकार शौरिर् अर्केन्दू दृष्टिपातहतौजसौ
नीतो ऽग्निः शतशो बाणैर् द्राविता वसवो दिशः चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः
साध्या विश्वे च मरुतो गन्धर्वाश् चैव सायकैः शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत्
गरुडश् चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः भक्षयन्न् अहनद् देवान् दानवांश् च सदा खगः
ततः शरसहस्रेण देवेन्द्रमधुसूदनौ परस्परं ववर्षाते धाराभिर् इव तोयदौ
ऐरावतेन गरुडो युयुधे तत्र संकुले देवैः समेतैर् युयुधे शक्रेण च जनार्दनः
छिन्नेषु शीर्यमाणेषु शस्त्रेष्व् अस्त्रेषु सत्वरम् जग्राह वासवो वज्रं कृष्णश् चक्रं सुदर्शनम्
ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ
क्षिप्तं वज्रम् अथेन्द्रेण जग्राह भगवान् हरिः न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत्
प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् सत्यभामाब्रवीद् वाक्यं पलायनपरायणम्
त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् पारिजातस्रगाभोगात् त्वाम् उपस्थास्यते शची
कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम्
अलं शक्र प्रयासेन न व्रीडां यातुम् अर्हसि नीयतां पारिजातो ऽयं देवाः सन्तु गतव्यथाः
पतिगर्वावलेपेन बहुमानपुरःसरम् न ददर्श गृहायाताम् उपचारेण मां शची
स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा ततः कृतवती शक्र भवता सह विग्रहम्
तद् अलं पारिजातेन परस्वेन हृतेन वा रूपेण यशसा चैव भवेत् स्त्री का न गर्विता
इत्य् उक्ते वै निववृते देवराजस् तया द्विजाः प्राह चैनाम् अलं चण्डि सखि खेदातिविस्तरैः
न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः जितस्य तेन मे व्रीडा जायते विश्वरूपिणा
यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये यस्माद् यतश् च न भविष्यति सर्वभूतात् तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य
सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा विदितसकलवेदैर् ज्ञायते यस्य नान्यैः तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं जगदुपकृतिम् आद्यं को विजेतुं समर्थः
संस्तुतो भगवान् इत्थं देवराजेन केशवः प्रहस्य भावगम्भीरम् उवाचेदं द्विजोत्तमाः
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते क्षन्तव्यं भवतैवैतद् अपराधकृतं मम
पारिजाततरुश् चायं नीयताम् उचितास्पदम् गृहीतो ऽयं मया शक्र सत्यावचनकारणात्
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया तवैवैतत् प्रहरणं शक्र वैरिविदारणम्
विमोहयसि माम् ईश मर्त्यो ऽहम् इति किं वदन् जानीमस् त्वां भगवतो ऽनन्तसौख्यविदो वयम्
यो ऽसि सो ऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन
नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम् मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि
तथेत्य् उक्त्वा तु देवेन्द्रम् आजगाम भुवं हरिः प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस् त्व् अथर्षिभिः