एवम् अस्तु यथेच्छा ते त्वम् अशेषसुरासुरैः अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि
ततो ऽनन्तरम् एवास्य शक्राणीसहितां दितिम् सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः
मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च भविष्यत्य् अनवद्याङ्गि सर्वकामा भविष्यसि
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् यथावत् पूजयाम् आस बहुमानपुरःसरम्
ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम्
मथ्यमाने ऽमृते जातं जातरूपसमप्रभम् पारिजातं जगन्नाथः केशवः केशिसूदनः तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः
कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे
मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम् सत्यं तद् यदि गोविन्द नोपचारकृतं वचः
तद् अस्तु पारिजातो ऽयं मम गेहविभूषणम् बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् सपत्नीनाम् अहं मध्ये शोभेयम् इति कामये
इत्य् उक्तः स प्रहस्यैनं पारिजातं गरुत्मति आरोपयाम् आस हरिस् तम् ऊचुर् वनरक्षिणः
भोः शची देवराजस्य महिषी तत्परिग्रहम् पारिजातं न गोविन्द हर्तुम् अर्हसि पादपम्
शचीविभूषणार्थाय देवैर् अमृतमन्थने उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि
मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् अवश्यम् अस्य देवेन्द्रो विकृतिं कृष्ण यास्यति
वज्रोद्यतकरं शक्रम् अनुयास्यन्ति चामराः तद् अलं सकलैर् देवैर् विग्रहेण तवाच्युत विपाककटु यत् कर्म न तच् छंसन्ति पण्डिताः
इत्य् उक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी
का शची पारिजातस्य को वा शक्रः सुराधिपः सामान्यः सर्वलोकानां यद्य् एषो ऽमृतमन्थने
समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः यथा सुरा यथा चेन्दुर् यथा श्रीर् वनरक्षिणः
सामान्यः सर्वलोकस्य पारिजातस् तथा द्रुमः भर्तृबाहुमहागर्वाद् रुणद्ध्य् एनम् अथो शची
तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम सत्यभामा वदत्य् एवं भर्तृगर्वोद्धताक्षरम्
यदि त्वं दयिता भर्तुर् यदि तस्य प्रिया ह्य् असि मद्भर्तुर् हरतो वृक्षं तत् कारय निवारणम्
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् पारिजातं तथाप्य् एनं मानुषी हारयामि ते
इत्य् उक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर् यथोदितम् शची चोत्साहयाम् आस त्रिदशाधिपतिं पतिम्
ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् प्रवृक्तः पारिजातार्थम् इन्द्रो योधयितुं द्विजाः
ततः परिघनिस्त्रिंशगदाशूलधरायुधाः बभूवुस् त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते
ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् शक्रं देवपरीवारं युद्धाय समुपस्थितम्
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् मुमोच च शरव्रातं सहस्रायुतसंमितम्
ततो दिशो नभश् चैव दृष्ट्वा शरशताचितम् मुमुचुस् त्रिदशाः सर्वे शस्त्राण्य् अस्त्राण्य् अनेकशः
एकैकम् अस्त्रं शस्त्रं च देवैर् मुक्तं सहस्रधा चिच्छेद लीलयैवेशो जगतां मधुसूदनः