ततः शङ्खम् उपाध्माय स्वर्गद्वारं गतो हरिः उपतस्थुस् ततो देवाः सार्घपात्रा जनार्दनम्
स देवैर् अर्चितः कृष्णो देवमातुर् निवेशनम् सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम्
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ददौ नरकनाशं च शशंसास्यै जनार्दनः
ततः प्रीता जगन्माता धातारं जगतां हरिम् तुष्टावादितिर् अव्यग्रं कृत्वा तत्प्रवणं मनः
नमस् ते पुण्डरीकाक्ष भक्तानाम् अभयंकर सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन
प्रणेतर् मनसो बुद्धेर् इन्द्रियाणां गुणात्मक सितदीर्घादिनिःशेषकल्पनापरिवर्जित
जन्मादिभिर् असंस्पृष्टस्वप्नादिवारिवर्जितः संध्या रात्रिर् अहर् भूमिर् गगनं वायुर् अम्बु च
हुताशनो मनो बुद्धिर् भूतादिस् त्वं तथाच्युत सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर् भवान्
ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वरः मायाभिर् एतद् व्याप्तं ते जगत् स्थावरजङ्गमम्
अनात्मन्य् आत्मविज्ञानं सा ते माया जनार्दन अहं ममेति भावो ऽत्र यया समुपजायते
संसारमध्ये मायायास् तवैतन् नाथ चेष्टितम् यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान्
ते तरन्त्य् अखिलाम् एतां मायाम् आत्मविमुक्तये ब्रह्माद्याः सकला देवा मनुष्याः पशवस् तथा
विष्णुमायामहावर्ते मोहान्धतमसावृताः आराध्य त्वाम् अभीप्सन्ते कामान् आत्मभवक्षये
पदे ते पुरुषा बद्धा मायया भगवंस् तव मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च
आराधितो न मोक्षाय मायाविलसितं हि तत् कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि
जायते यद् अपुण्यानां सो ऽपराधः स्वदोषजः तत् प्रसीदाखिलजगन्मायामोहकराव्यय
अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय नमस् ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् न जानामि परं यत् ते प्रसीद परमेश्वर
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम्
माता देवि त्वम् अस्माकं प्रसीद वरदा भव
एवम् अस्तु यथेच्छा ते त्वम् अशेषसुरासुरैः अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि
ततो ऽनन्तरम् एवास्य शक्राणीसहितां दितिम् सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः
मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च भविष्यत्य् अनवद्याङ्गि सर्वकामा भविष्यसि
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् यथावत् पूजयाम् आस बहुमानपुरःसरम्
ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम्
मथ्यमाने ऽमृते जातं जातरूपसमप्रभम् पारिजातं जगन्नाथः केशवः केशिसूदनः तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः
कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे
मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम् सत्यं तद् यदि गोविन्द नोपचारकृतं वचः