सो ऽहं सांप्रतम् आयातो यन्निमित्तं जनार्दन तच् छ्रुत्वा तत्प्रतीकारप्रयत्नं कर्तुम् अर्हसि
भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः करोति सर्वभूतानाम् अपघातम् अरिंदम
देवसिद्धसुरादीनां नृपाणां च जनार्दन हत्वा तु सो ऽसुरः कन्या रुरोध निजमन्दिरे
छत्त्रं यत् सलिलस्रावि तज् जहार प्रचेतसः मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम्
अमृतस्राविणी दिव्ये मातुर् मे ऽमृतकुण्डले जहार सो ऽसुरो ऽदित्या वाञ्छत्य् ऐरावतं द्विपम्
दुर्नीतम् एतद् गोविन्द मया तस्य तवोदितम् यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम्
इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात्
संचिन्तितम् उपारुह्य गरुडं गगनेचरम् सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम्
आरुह्यैरावतं नागं शक्रो ऽपि त्रिदशालयम् ततो जगाम सुमनाः पश्यतां द्वारकौकसाम्
प्राग्ज्योतिषपुरस्यास्य समन्ताच् छतयोजनम् आचितं भैरवैः पाशैः परसैन्यनिवारणे
तांश् चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ततो मुरः समुत्तस्थौ तं जघान च केशवः
मुरोस् तु तनयान् सप्त सहस्रास् तांस् ततो हरिः चक्रधाराग्निनिर्दग्धांश् चकार शलभान् इव
हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः प्राग्ज्योतिषपुरं धीमांस् त्वरावान् समुपाद्रवत्
नरकेनास्य तत्राभून् महासैन्येन संयुगः कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः
शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा
हते तु नरके भूमिर् गृहीत्वादितिकुण्डले उपतस्थे जगन्नाथं वाक्यं चेदम् अथाब्रवीत्
यदाहम् उद्धृता नाथ त्वया शूकरमूर्तिना त्वत्संस्पर्शभवः पुत्रस् तदायं मय्य् अजायत
सो ऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः गृहाण कुण्डले चेमे पालयास्य च संततिम्
भारावतरणार्थाय ममैव भगवान् इमम् अंशेन लोकम् आयातः प्रसादसुमुख प्रभो
त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽव्ययः जगत्स्वरूपो यश् च त्वं स्तूयसे ऽच्युत किं मया
व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा सर्वभूतात्मभूतात्मा स्तूयसे ऽच्युत किं मया
परमात्मा त्वम् आत्मा च भूतात्मा चाव्ययो भवान् यदा तदा स्तुतिर् नास्ति किमर्थं ते प्रवर्तताम्
प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् तत् क्षम्यताम् अदोषाय मत्सुतः स निपातितः
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः रत्नानि नरकावासाज् जग्राह मुनिसत्तमाः
कन्यापुरे स कन्यानां षोडशातुलविक्रमः शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः
चतुर्दंष्ट्रान् गजांश् चोग्रान् षट् सहस्राणि दृष्टवान् काम्बोजानां तथाश्वानां नियुतान्य् एकविंशतिम्
कन्यास् ताश् च तथा नागांस् तान् अश्वान् द्वारकां पुरीम् प्रापयाम् आस गोविन्दः सद्यो नरककिंकरैः
ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् आरोपयाम् आस हरिर् गरुडे पतगेश्वरे
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् अदित्याः कुण्डले दातुं जगाम त्रिदशालयम्
गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् सभार्यं च हृषीकेशं लीलयैव वहन् ययौ