सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी षोडशात्र सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः
प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम् स्वयंवरस्थां जग्राह सापि तं तनयं हरेः
तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिंदमः
तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा
तस्या विवाहे रामाद्या यादवा हरिणा सह रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विजाः
विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन्
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः सभायां सह रामेण चक्रे द्यूतं च वै तदा
सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः
ततो दश सहस्राणि निष्काणां पणम् आददे बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः
ततो जहासाथ बलं कलिङ्गाधिपतिर् द्विजाः दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः
अविद्यो ऽयं महाद्यूते बलभद्रः पराजितः मृषैवाक्षावलेपत्वाद् यो ऽयं मेने ऽक्षकोविदम्
दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः ग्लहं जग्राह रुक्मी च ततस् त्व् अक्षान् अपातयत्
अजयद् बलदेवो ऽथ प्राहोच्चैस् तं जितं मया ममेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बलम्
त्वयोक्तो ऽयं ग्लहः सत्यं न ममैषो ऽनुमोदितः एवं त्वया चेद् विजितं न मया विजितं कथम्
ततो ऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी बलदेवस्य तं कोपं वर्धयन्ती महात्मनः
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा अनुक्त्वा वचनं किंचित् कृतं भवति कर्मणा
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः जघानाष्टापदेनैव रुक्मिणं स महाबलः
कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः
आकृष्य च महास्तम्भं जातरूपमयं बलः जघान ये तत्पक्षास् तान् भूभृतः कुपितो बलः
ततो हाहाकृतं सर्वं पलायनपरं द्विजाः तद् राजमण्डलं सर्वं बभूव कुपिते बले
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः नोवाच वचनं किंचिद् रुक्मिणीबलयोर् भयात्
ततो ऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तमाः द्वारकाम् आजगामाथ यदुचक्रं सकेशवम्
द्वारवत्यां ततः शौरिं शक्रस् त्रिभुवनेश्वरः आजगामाथ मुनयो मत्तैरावतपृष्ठगः
प्रविश्य द्वारकां सो ऽथ समीपे च हरेस् तदा कथयाम् आस दैत्यस्य नरकस्य विचेष्टितम्
त्वया नाथेन देवानां मनुष्यत्वे ऽपि तिष्ठता प्रशमं सर्वदुःखानि नीतानि मधुसूदन
तपस्विजनरक्षायै सो ऽरिष्टो धेनुकस् तथा प्रलम्बाद्यास् तथा केशी ते सर्वे निहतास् त्वया
कंसः कुवलयापीडः पूतना बालघातिनी नाशं नीतास् त्वया सर्वे ये ऽन्ये जगदुपद्रवाः
युष्मद्दोर्दण्डसंबुद्धिपरित्राते जगत्त्रये यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः