सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान् मया सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला
इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् क्रोधाकुलीकृतमना युयुधे च महाबलः
हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः सप्त माया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम्
तया जघान तं दैत्यं मायया कालशम्बरम् उत्पत्य च तया सार्धम् आजगाम पितुः पुरम्
अन्तःपुरे च पतितं मायावत्या समन्वितम् तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः रुक्मिणी चाब्रवीत् प्रेम्णा आसक्तदृष्टिर् अनिन्दिता
धन्यायाः खल्व् अयं पुत्रो वर्तते नवयौवने अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति
सभाग्या जननी वत्स त्वया कापि विभूषिता अथवा यादृशः स्नेहो मम यादृग् वपुश् च ते हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति
एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः
एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः हृतो येनाभवत् पूर्वं पुत्रस् ते सूतिकागृहात्
इयं मायावती भार्या तनयस्यास्य ते सती शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम्
मन्मथे तु गते नाशं तदुद्भवपरायणा शम्बरं मोहयाम् आस मायारूपेण रुक्मिणि
विवाहाद्युपभोगेषु रूपं मायामयं शुभम् दर्शयाम् आस दैत्यस्य तस्येयं मदिरेक्षणा
कामो ऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा नगरी च समस्ता सा साधु साध्व् इत्य् अभाषत
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् अवाप विस्मयं सर्वो द्वारवत्यां जनस् तदा
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् सुषेणं चारुगुप्तं च भद्रचारुं तथापरम्
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा
अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा
देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी मद्रराजसुता चान्या सुशीला शीलमण्डला
सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी षोडशात्र सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः
प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम् स्वयंवरस्थां जग्राह सापि तं तनयं हरेः
तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिंदमः
तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा
तस्या विवाहे रामाद्या यादवा हरिणा सह रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विजाः
विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन्
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः सभायां सह रामेण चक्रे द्यूतं च वै तदा
सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः
ततो दश सहस्राणि निष्काणां पणम् आददे बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः