ततश् च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः शिशुपालो जरासंधः शाल्वाद्याश् च महीभृतः
कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम् निर्जिताश् च समागम्य रामाद्यैर् यदुपुंगवैः
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः
हत्वा बलं स नागाश्वपत्तिस्यन्दनसंकुलम् निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा
निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् राक्षसेन विधानेन संप्राप्तो मधुसूदनः
तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् जहार शम्बरो यं वै यो जघान च शम्बरम्
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः
षष्ठे ऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् ममैष हन्तेति द्विजा हृतवान् कालशम्बरः
नीत्वा चिक्षेप चैवैनं ग्राहो ऽग्रे लवणार्णवे कल्लोलजनितावर्ते सुघोरे मकरालये
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् न ममार च तस्यापि जठरानलदीपितः
मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्विजाः घातितो ऽसुरवर्याय शम्बराय निवेदितः
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी कारयाम् आस सूदानाम् आधिपत्यम् अनिन्दिता
दारिते मत्स्यजठरे ददृशे सातिशोभनम् कुमारं मन्मथतरोर् दग्धस्य प्रथमाङ्कुरम्
को ऽयं कथम् अयं मत्स्यजठरे समुपागतः इत्य् एवं कौतुकाविष्टां तां तन्वीं प्राह नारदः
अयं समस्तजगतां सृष्टिसंहारकारिणा शम्बरेण हृतः कृष्णतनयः सूतिकागृहात्
क्षिप्तः समुद्रे मत्स्येन निगीर्णस् ते वशं गतः नररत्नम् इदं सुभ्रु विश्रब्धा परिपालय
नारदेनैवम् उक्ता सा पालयाम् आस तं शिशुम् बाल्याद् एवातिरागेण रूपातिशयमोहिता
स यदा यौवनाभोगभूषितो ऽभूद् द्विजोत्तमाः साभिलाषा तदा सा तु बभूव गजगामिनी
मायावती ददौ चास्मै माया सर्वा महात्मने प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा प्रसज्जन्तीं तु ताम् आह स कार्ष्णिः कमललोचनः
मातृभावं विहायैव किमर्थं वर्तसे ऽन्यथा
सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान् मया सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला
इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् क्रोधाकुलीकृतमना युयुधे च महाबलः
हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः सप्त माया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम्
तया जघान तं दैत्यं मायया कालशम्बरम् उत्पत्य च तया सार्धम् आजगाम पितुः पुरम्
अन्तःपुरे च पतितं मायावत्या समन्वितम् तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः रुक्मिणी चाब्रवीत् प्रेम्णा आसक्तदृष्टिर् अनिन्दिता
धन्यायाः खल्व् अयं पुत्रो वर्तते नवयौवने अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति
सभाग्या जननी वत्स त्वया कापि विभूषिता अथवा यादृशः स्नेहो मम यादृग् वपुश् च ते हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति
एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः
एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः हृतो येनाभवत् पूर्वं पुत्रस् ते सूतिकागृहात्