ततः कदम्बात् सहसा मद्यधारां स लाङ्गली पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम्
पपौ च गोपगोपीभिः समवेतो मुदान्वितः उपगीयमानो ललितं गीतवाद्यविशारदैः
श्रमतो ऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः
तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली
गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः पापे नायासि नायासि गम्यताम् इच्छयान्यतः
सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा यत्रास्ते बलदेवो ऽसौ प्लावयाम् आस तद् वनम्
शरीरिणी तथोपेत्य त्रासविह्वललोचना प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध
सो ऽब्रवीद् अवजानासि मम शौर्यबलं यदि सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा
इत्य् उक्तयातिसंत्रस्तस् तया नद्या प्रसादितः भूभागे प्लाविते तत्र मुमोच यमुनां बलः
ततः स्नातस्य वै कान्तिर् आजगाम महावने अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम्
वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम् समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत
कृतावतंसः स तदा चारुकुण्डलभूषितः नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः
इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे मासद्वयेन यातश् च पुनः स मथुरां पुरीम्
रेवतीं चैव तनयां रैवतस्य महीपतेः उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे
ददौ स शिशुपालाय जरासंधप्रचोदितः भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः
विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः भीष्मकस्य पुरं जग्मुः शिशुपालश् च कुण्डिनम्
कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः
श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः विपक्षभावम् आसाद्य रामाद्येष्व् एव बन्धुषु
ततश् च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः शिशुपालो जरासंधः शाल्वाद्याश् च महीभृतः
कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम् निर्जिताश् च समागम्य रामाद्यैर् यदुपुंगवैः
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः
हत्वा बलं स नागाश्वपत्तिस्यन्दनसंकुलम् निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा
निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् राक्षसेन विधानेन संप्राप्तो मधुसूदनः
तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् जहार शम्बरो यं वै यो जघान च शम्बरम्
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः
षष्ठे ऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् ममैष हन्तेति द्विजा हृतवान् कालशम्बरः
नीत्वा चिक्षेप चैवैनं ग्राहो ऽग्रे लवणार्णवे कल्लोलजनितावर्ते सुघोरे मकरालये
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् न ममार च तस्यापि जठरानलदीपितः