तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम् करोति कृष्णो वक्तव्यं भवता वचनामृतम्
दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः
आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः
संदेशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः
गोपैश् च पूर्ववद् रामः परिहासमनोहरैः कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु
वने विहरतस् तस्य सह गोपैर् महात्मनः मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः
निष्पादितोरुकार्यस्य कार्येणैवावतारिणः उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम्
अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे
इत्य् उक्ता वारुणी तेन संनिधानम् अथाकरोत् वृन्दावनतटोत्पन्नकदम्बतरुकोटरे
विचरन् बलदेवो ऽपि मदिरागन्धम् उद्धतम् आघ्राय मदिराहर्षम् अवापाथ पुरातनम्
ततः कदम्बात् सहसा मद्यधारां स लाङ्गली पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम्
पपौ च गोपगोपीभिः समवेतो मुदान्वितः उपगीयमानो ललितं गीतवाद्यविशारदैः
श्रमतो ऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः
तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली
गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः पापे नायासि नायासि गम्यताम् इच्छयान्यतः
सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा यत्रास्ते बलदेवो ऽसौ प्लावयाम् आस तद् वनम्
शरीरिणी तथोपेत्य त्रासविह्वललोचना प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध
सो ऽब्रवीद् अवजानासि मम शौर्यबलं यदि सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा
इत्य् उक्तयातिसंत्रस्तस् तया नद्या प्रसादितः भूभागे प्लाविते तत्र मुमोच यमुनां बलः
ततः स्नातस्य वै कान्तिर् आजगाम महावने अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम्
वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम् समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत
कृतावतंसः स तदा चारुकुण्डलभूषितः नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः
इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे मासद्वयेन यातश् च पुनः स मथुरां पुरीम्
रेवतीं चैव तनयां रैवतस्य महीपतेः उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे
ददौ स शिशुपालाय जरासंधप्रचोदितः भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः
विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः भीष्मकस्य पुरं जग्मुः शिशुपालश् च कुण्डिनम्
कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः
श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः विपक्षभावम् आसाद्य रामाद्येष्व् एव बन्धुषु