आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् पराभिभवनिःशङ्कं बभूव च यदोः कुलम्
बलदेवो ऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्
ततो गोपाश् च गोप्यश् च यथापूर्वम् अमित्रजित् तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम्
कैश् चापि संपरिष्वक्तः कांश्चित् स परिषस्वजे हासं चक्रे समं कैश्चिद् गोपगोपीजनैस् तथा
प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम् गोप्यश् च प्रेममुदिताः प्रोचुः सेर्ष्यम् अथापराः
गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमरसाकुलः
अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् सौभाग्यमानम् अधिकं करोति क्षणसौहृदः
कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति
अथवा किं तदालापैः क्रियन्ताम् अपराः कथाः यद् अस्माभिर् विना तेन विनास्माकं भविष्यति
पिता माता तथा भ्राता भर्ता बन्धुजनश् च कः न त्यक्तस् तत्कृते श्माभिर् अकृतज्ञस् ततो हि सः
तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम् करोति कृष्णो वक्तव्यं भवता वचनामृतम्
दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः
आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः
संदेशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः
गोपैश् च पूर्ववद् रामः परिहासमनोहरैः कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु
वने विहरतस् तस्य सह गोपैर् महात्मनः मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः
निष्पादितोरुकार्यस्य कार्येणैवावतारिणः उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम्
अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे
इत्य् उक्ता वारुणी तेन संनिधानम् अथाकरोत् वृन्दावनतटोत्पन्नकदम्बतरुकोटरे
विचरन् बलदेवो ऽपि मदिरागन्धम् उद्धतम् आघ्राय मदिराहर्षम् अवापाथ पुरातनम्
ततः कदम्बात् सहसा मद्यधारां स लाङ्गली पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम्
पपौ च गोपगोपीभिः समवेतो मुदान्वितः उपगीयमानो ललितं गीतवाद्यविशारदैः
श्रमतो ऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः
तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली
गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः पापे नायासि नायासि गम्यताम् इच्छयान्यतः
सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा यत्रास्ते बलदेवो ऽसौ प्लावयाम् आस तद् वनम्
शरीरिणी तथोपेत्य त्रासविह्वललोचना प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध
सो ऽब्रवीद् अवजानासि मम शौर्यबलं यदि सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा
इत्य् उक्तयातिसंत्रस्तस् तया नद्या प्रसादितः भूभागे प्लाविते तत्र मुमोच यमुनां बलः
ततः स्नातस्य वै कान्तिर् आजगाम महावने अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम्