त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् अवाप्य पापान् पश्यन्ति प्रेतराजानम् अन्तरा
ततः पाशशतैर् बद्धा नरकेष्व् अतिदारुणम् प्राप्नुवन्ति महद् दुःखं विश्वरूपम् इदं तव
अहम् अत्यन्तविषयी मोहितस् तव मायया ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर
सो ऽहं त्वां शरणम् अपारम् ईशम् ईड्यं संप्राप्तः परमपदं यतो न किंचित् संसारश्रमपरितापतप्तचेता निर्विण्णे परिणतधाम्नि साभिलाषः
इत्थं स्तुतस् तदा तेन मुचुकुन्देन धीमता प्राहेशः सर्वभूतानाम् अनादिनिधनो हरिः
यथाभिवाञ्छितांल् लोकान् दिव्यान् गच्छ नरेश्वर अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः
भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले जातिस्मरो मत्प्रसादात् ततो मोक्षम् अवाप्स्यसि
इत्य् उक्तः प्रणिपत्येशं जगताम् अच्युतं नृपः गुहामुखाद् विनिष्क्रान्तो ददृशे सो ऽल्पकान् नरान्
ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः नरनारायणस्थानं प्रययौ गन्धमादनम्
कृष्णो ऽपि घातयित्वारिम् उपायेन हि तद्बलम् जग्राह मथुराम् एत्य हस्त्यश्वस्यन्दनोज्ज्वलम्
आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् पराभिभवनिःशङ्कं बभूव च यदोः कुलम्
बलदेवो ऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्
ततो गोपाश् च गोप्यश् च यथापूर्वम् अमित्रजित् तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम्
कैश् चापि संपरिष्वक्तः कांश्चित् स परिषस्वजे हासं चक्रे समं कैश्चिद् गोपगोपीजनैस् तथा
प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम् गोप्यश् च प्रेममुदिताः प्रोचुः सेर्ष्यम् अथापराः
गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमरसाकुलः
अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् सौभाग्यमानम् अधिकं करोति क्षणसौहृदः
कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति
अथवा किं तदालापैः क्रियन्ताम् अपराः कथाः यद् अस्माभिर् विना तेन विनास्माकं भविष्यति
पिता माता तथा भ्राता भर्ता बन्धुजनश् च कः न त्यक्तस् तत्कृते श्माभिर् अकृतज्ञस् ततो हि सः
तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम् करोति कृष्णो वक्तव्यं भवता वचनामृतम्
दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः
आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः
संदेशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः
गोपैश् च पूर्ववद् रामः परिहासमनोहरैः कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु
वने विहरतस् तस्य सह गोपैर् महात्मनः मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः
निष्पादितोरुकार्यस्य कार्येणैवावतारिणः उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम्
अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे
इत्य् उक्ता वारुणी तेन संनिधानम् अथाकरोत् वृन्दावनतटोत्पन्नकदम्बतरुकोटरे
विचरन् बलदेवो ऽपि मदिरागन्धम् उद्धतम् आघ्राय मदिराहर्षम् अवापाथ पुरातनम्