पतिव्रता महाभागा द्रौपदीव पुरा सती कुमारः सुकुमारो ऽसौ गिरिपृष्ठे रुरोद ह
दयार्थं तस्य मेघास् तु प्रादुरासन् महात्मनः श्रविष्ठायास् तु पुत्रौ द्वौ पैप्पलादिश् च कौशिकः
दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ
अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः अजश्यामौ तु तत्पार्श्वौ देवेन संबभूवतुः
अथाजपार्श्व इति वै चक्राते नाम तस्य तौ स तु रेमकशालायां द्विजाभ्याम् अभिवर्धितः
रेमकस्य तु भार्या तम् उद्वहत् पुत्रकारणात् रेमत्याः स तु पुत्रो ऽभूद् ब्राह्मणौ सचिवौ तु तौ
तेषां पुत्राश् च पौत्राश् च युगपत्तुल्यजीविनः स एष पौरवो वंशः पाण्डवानां महात्मनाम्
श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना जरासंक्रमणे पूर्वं तदा प्रीतेन धीमता
अचन्द्रार्कग्रहा भूमिर् भवेद् इयम् असंशयम् अपौरवा मही नैव भविष्यति कदाचन
एष वः पौरवो वंशो विख्यातः कथितो मया तुर्वसोस् तु प्रवक्ष्यामि द्रुह्योश् चानोर् यदोस् तथा
तुर्वसोस् तु सुतो वह्निर् गोभानुस् तस्य चात्मजः गोभानोस् तु सुतो राजा ऐशानुर् अपराजितः
करंधमस् तु ऐशानोर् मरुत्तस् तस्य चात्मजः अन्यस् त्व् आविक्षितो राजा मरुत्तः कथितो मया
अनपत्यो ऽभवद् राजा यज्वा विपुलदक्षिणः दुहिता संयता नाम तस्यासीत् पृथिवीपतेः
दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने दुष्यन्तं पौरवं चापि लेभे पुत्रम् अकल्मषम्
एवं ययातिशापेन जरासंक्रमणे तदा पौरवं तुर्वसोर् वंशं प्रविवेश द्विजोत्तमाः
दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः करूरोमाद् अथाह्रीदश् चत्वारस् तस्य चात्मजाः
पाण्ड्यश् च केरलश् चैव कालश् चोलश् च पार्थिवः द्रुह्योश् च तनयो राजन् बभ्रुसेतुश् च पार्थिवः
अङ्गारसेतुस् तत्पुत्रो मरुतां पतिर् उच्यते यौवनाश्वेन समरे कृच्छ्रेण निहतो बली
युद्धं सुमहद् अप्य् आसीन् मासान् परिचरद् दश अङ्गारसेतोर् दायादो गान्धारो नाम पार्थिवः
ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् गान्धारदेशजाश् चैव तुरगा वाजिनां वराः
अनोस् तु पुत्रो धर्मो ऽभूद् द्यूतस् तस्यात्मजो ऽभवत् द्यूताद् वनदुहो जज्ञे प्रचेतास् तस्य चात्मजः
प्रचेतसः सुचेतास् तु कीर्तितास् त्व् अनवो मया बभूवुस् तु यदोः पुत्राः पञ्च देवसुतोपमाः
सहस्रादः पयोदश् च क्रोष्टा नीलो ऽञ्जिकस् तथा सहस्रादस्य दायादास् त्रयः परमधार्मिकाः
हैहयश् च हयश् चैव राजा वेणुहयस् तथा हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः
धर्मनेत्रस्य कार्तस् तु साहञ्जस् तस्य चात्मजः साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता
आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः
दुर्दमस्य सुतो धीमान् कनको नाम नामतः कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः
कृतवीर्यः कृतौजाश् च कृतधन्वा तथैव च कृताग्निस् तु चतुर्थो ऽभूत् कृतवीर्याद् अथार्जुनः
यो ऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत् जिगाय पृथिवीम् एको रथेनादित्यवर्चसा
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् दत्तम् आराधयाम् आस कार्तवीर्यो ऽत्रिसंभवम्