मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा यादवाभिभवं दुष्टा मा कुर्वन् वैरिणो ऽधिकम्
इति संचिन्त्य गोविन्दो योजनानि महोदधिम् ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे
महोद्यानां महावप्रां तडागशतशोभिताम् प्राकारशतसंबाधाम् इन्द्रस्येवामरावतीम्
मथुरावासिनं लोकं तत्रानीय जनार्दनः आसन्ने कालयवने मथुरां च स्वयं ययौ
बहिर् आवासिते सैन्ये मथुराया निरायुधः निर्जगाम स गोविन्दो ददर्श यवनश् च तम्
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः अनुयातो महायोगिचेतोभिः प्राप्यते न यः
तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः
सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् पादेन ताडयाम् आस कृष्णं मत्वा स दुर्मतिः
दृष्टमात्रश् च तेनासौ जज्वाल यवनो ऽग्निना तत्क्रोधजेन मुनयो भस्मीभूतश् च तत्क्षणात्
स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान्
प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति देहजेनाग्निना सद्यः स तु भस्मीभविष्यति
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् कस् त्वम् इत्य् आह सो ऽप्य् आह जातो ऽहं शशिनः कुले
वसुदेवस्य तनयो यदुवंशसमुद्भवः मुचुकुन्दो ऽपि तच् छ्रुत्वा वृद्धगार्ग्यवचः स्मरन्
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वरः
पुरा गार्ग्येण कथितम् अष्टाविंशतिमे युगे द्वापरान्ते हरेर् जन्म यदुवंशे भविष्यति
स त्वं प्राप्तो न संदेहो मर्त्यानाम् उपकारकृत् तथा हि सुमहत् तेजो नालं सोढुम् अहं तव
तथा हि सुमहाम्भोदध्वनिधीरतरं ततः वाक्यं तम् इति होवाच युष्मत्पादसुलालितम्
देवासुरे महायुद्धे दैत्याश् च सुमहाभटाः न शेकुस् ते महत् तेजस् तत् तेजो न सहाम्य् अहम्
संसारपतितस्यैको जन्तोस् त्वं शरणं परम् संप्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम्
त्वं पयोनिधयः शैलाः सरितश् च वनानि च मेदिनी गगनं वायुर् आपो ऽग्निस् त्वं तथा पुमान्
पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् शब्दादिहीनम् अजरं वृद्धिक्षयविवर्जितम्
त्वत्तो ऽमरास् तु पितरो यक्षगन्धर्वराक्षसाः सिद्धाश् चाप्सरसस् त्वत्तो मनुष्याः पशवः खगाः
सरीसृपा मृगाः सर्वे त्वत्तश् चैव महीरुहाः यच् च भूतं भविष्यद् वा किंचिद् अत्र चराचरे
अमूर्तं मूर्तम् अथवा स्थूलं सूक्ष्मतरं तथा तत् सर्वं त्वं जगत्कर्तर् नास्ति किंचित् त्वया विना
मया संसारचक्रे ऽस्मिन् भ्रमता भगवन् सदा तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित्
दुःखान्य् एव सुखानीति मृगतृष्णाजलाशयः मया नाथ गृहीतानि तानि तापाय मे ऽभवन्
राज्यम् उर्वी बलं कोशो मित्रपक्षस् तथात्मजाः भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो
सुखबुद्ध्या मया सर्वं गृहीतम् इदम् अव्यय परिणामे च देवेश तापात्मकम् अभून् मम
देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि मत्तः साहाय्यकामो ऽभूच् छाश्वती कुत्र निर्वृतिः
त्वाम् अनाराध्य जगतां सर्वेषां प्रभवास्पदम् शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः