ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम्
आराधयन् महादेवं सो ऽयश् चूर्णम् अभक्षयत् ददौ वरं च तुष्टो ऽसौ वर्षे द्वादशके हरः
संभावयाम् आस स तं यवनेशो ह्य् अनात्मजम् तद्योषित्संगमाच् चास्य पुत्रो ऽभूद् अलिसप्रभः
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः अभिषिच्य वनं यातो वज्राग्रकठिनोरसम्
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् पप्रच्छ नारदश् चास्मै कथयाम् आस यादवान्
म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽपि संवृतः गजाश्वरथसंपन्नैश् चकार परमोद्यमम्
प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम्
कृष्णो ऽपि चिन्तयाम् आस क्षपितं यादवं बलम् यवनेन समालोक्य मागधः संप्रयास्यति
मागधस्य बलं क्षीणं स कालयवनो बली हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा
तस्माद् दुर्गं करिष्यामि यदूनाम् अतिदुर्जयम् स्त्रियो ऽपि यत्र युध्येयुः किं पुनर् वृष्णियादवाः
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा यादवाभिभवं दुष्टा मा कुर्वन् वैरिणो ऽधिकम्
इति संचिन्त्य गोविन्दो योजनानि महोदधिम् ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे
महोद्यानां महावप्रां तडागशतशोभिताम् प्राकारशतसंबाधाम् इन्द्रस्येवामरावतीम्
मथुरावासिनं लोकं तत्रानीय जनार्दनः आसन्ने कालयवने मथुरां च स्वयं ययौ
बहिर् आवासिते सैन्ये मथुराया निरायुधः निर्जगाम स गोविन्दो ददर्श यवनश् च तम्
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः अनुयातो महायोगिचेतोभिः प्राप्यते न यः
तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः
सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् पादेन ताडयाम् आस कृष्णं मत्वा स दुर्मतिः
दृष्टमात्रश् च तेनासौ जज्वाल यवनो ऽग्निना तत्क्रोधजेन मुनयो भस्मीभूतश् च तत्क्षणात्
स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान्
प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति देहजेनाग्निना सद्यः स तु भस्मीभविष्यति
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् कस् त्वम् इत्य् आह सो ऽप्य् आह जातो ऽहं शशिनः कुले
वसुदेवस्य तनयो यदुवंशसमुद्भवः मुचुकुन्दो ऽपि तच् छ्रुत्वा वृद्धगार्ग्यवचः स्मरन्
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वरः
पुरा गार्ग्येण कथितम् अष्टाविंशतिमे युगे द्वापरान्ते हरेर् जन्म यदुवंशे भविष्यति
स त्वं प्राप्तो न संदेहो मर्त्यानाम् उपकारकृत् तथा हि सुमहत् तेजो नालं सोढुम् अहं तव
तथा हि सुमहाम्भोदध्वनिधीरतरं ततः वाक्यं तम् इति होवाच युष्मत्पादसुलालितम्
देवासुरे महायुद्धे दैत्याश् च सुमहाभटाः न शेकुस् ते महत् तेजस् तत् तेजो न सहाम्य् अहम्
संसारपतितस्यैको जन्तोस् त्वं शरणं परम् संप्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम्
त्वं पयोनिधयः शैलाः सरितश् च वनानि च मेदिनी गगनं वायुर् आपो ऽग्निस् त्वं तथा पुमान्