मथुरां च पुनः प्राप्ताव् उग्रसेनेन पालिताम् प्रहृष्टपुरुषस्त्रीकाव् उभौ रामजनार्दनौ
जरासंधसुते कंस उपयेमे महाबलः अस्तिः प्राप्तिश् च भो विप्रास् तयोर् भर्तृहणं हरिम्
महाबलपरीवारो मागधाधिपतिर् बली हन्तुम् अभ्याययौ कोपाज् जरासंधः सयादवम्
उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः
निष्क्रम्याल्पपरीवाराव् उभौ रामजनार्दनौ युयुधाते समं तस्य बलिनौ बलिसैनिकैः
ततो बलश् च कृष्णश् च मतिं चक्रे महाबलः आयुधानां पुराणानाम् आदाने मुनिसत्तमाः
अनन्तरं चक्रशार्ङ्गे तूणौ चाप्य् अक्षयौ शरैः आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा
हलं च बलभद्रस्य गगनाद् आगमत् करम् बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा
ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् पुरीं विविशतुर् वीराव् उभौ रामजनार्दनौ
जिते तस्मिन् सुदुर्वृत्ते जरासंधे द्विजोत्तमाः जीवमाने गते तत्र कृष्णो मेने न तं जितम्
पुनर् अप्य् आजगामाथ जरासंधो बलान्वितः जितश् च रामकृष्णाभ्याम् अपकृत्य द्विजोत्तमाः
दश चाष्टौ च संग्रामान् एवम् अत्यन्तदुर्मदः यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः
सर्वेष्व् एव च युद्धेषु यदुभिः स पराजितः अपक्रान्तो जरासंधः स्वल्पसैन्यैर् बलाधिकः
तद् बलं यादवानां वै रक्षितं यद् अनेकशः तत् तु संनिधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः अस्त्राण्य् अनेकरूपाणि यद् अरातिषु मुञ्चति
मनसैव जगत्सृष्टिसंहारं तु करोति यः तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः
तथापि च मनुष्याणां धर्मस् तदनुवर्तनम् कुर्वन् बलवता संधिं हीनैर् युद्धं करोत्य् असौ
साम चोपप्रदानं च तथा भेदं च दर्शयन् करोति दण्डपातं च क्वचिद् एव पलायनम्
मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्तते लीला जगत्पतेस् तस्य च्छन्दतः संप्रवर्तते
गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्य् उक्तवान् द्विजाः यदूनां संनिधौ सर्वे जहसुर् यादवास् तदा
ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम्
आराधयन् महादेवं सो ऽयश् चूर्णम् अभक्षयत् ददौ वरं च तुष्टो ऽसौ वर्षे द्वादशके हरः
संभावयाम् आस स तं यवनेशो ह्य् अनात्मजम् तद्योषित्संगमाच् चास्य पुत्रो ऽभूद् अलिसप्रभः
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः अभिषिच्य वनं यातो वज्राग्रकठिनोरसम्
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् पप्रच्छ नारदश् चास्मै कथयाम् आस यादवान्
म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽपि संवृतः गजाश्वरथसंपन्नैश् चकार परमोद्यमम्
प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम्
कृष्णो ऽपि चिन्तयाम् आस क्षपितं यादवं बलम् यवनेन समालोक्य मागधः संप्रयास्यति
मागधस्य बलं क्षीणं स कालयवनो बली हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा
तस्माद् दुर्गं करिष्यामि यदूनाम् अतिदुर्जयम् स्त्रियो ऽपि यत्र युध्येयुः किं पुनर् वृष्णियादवाः